________________
उपोद्घाते
॥ ४५ ॥
Jain Education intesti
उच्यते, इह पुद्गलास्तिकायादिकमभिधेयं, पुद्गलास्तिकायादिकं च परस्पर विलक्षणमनन्तं च तद्यथा - परमाणुर्द्विप्रदे| शिकस्त्रि प्रदेशिको यावदनन्ताणुक इत्यादि, अभिधेयभेदे चाभिधानस्यापि भेदः, अभिधानभेदस्याभिधेयभेदहेतुकत्वात्, एकत्रापि चाभिधेयेऽभिधेयधर्मभेदतोऽनेकाभिधानप्रवृत्तिर्यथा परमाणुर्निरंशो निरवयवो निष्प्रदेशो निर्भेदः, तथा | व्यणुको व्यंशो द्विप्रदेशो द्विभेदो द्व्यवयव इत्यादि, न चैते ध्वनयः सर्वथैकाभिधेयवाचकाः सर्वशब्दानां भिन्नप्रवृत्तिनिमि तत्वात्, एवं सर्वद्रव्येषु सर्वपर्यायेषु च यथायोगं भावनीयं, ततो भवन्त्यनन्ता अक्षरसंयोगाः, 'एतावत्यः' इयत्परिमाणाः प्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्याः ॥ सम्प्रति सामान्यरूपतयोपदर्शितानामनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन | प्रतिपादन सामर्थ्यमात्मनः खलु अपश्यन्नाह - [ ग्रं० २००० ]
1
"कस्तो मे वण्णे सत्ती सुयनाणसङ्घपयडीओ । चोद्दसविहनिक्खेवं सुयनाणे आवि वोच्छामि ॥ १८ ॥” कुतो मे मम वर्णयितुं - प्रतिपादयितुं शक्तिः - सामर्थ्य ?, नैवेत्यर्थः, काः १ - 'श्रुतज्ञान सर्वप्रकृतीः' प्रकृतयो - भेदाः सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतयस्ताः, कथं न शक्तिरिति चेत्, उच्यते, इह ये प्रन्धानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- 'तेविय मईविसेसा सुयनाणन्भंतरे जाण ।' ( | तांश्चोत्कृष्टश्रुतधरोऽप्यभिलाप्यानपिन सर्वान् भाषितुं समर्थः तेषामनन्तत्वादायुषः परिमितत्वाद्वाचः क्रमवर्त्तित्वाच्च, आह च भाष्यकृत् - " जावंतो वयण हा सुआणुसारेण केइ लब्भंति । ते सबे सुअनाणं भेआणता मइविसेसा ॥१॥ (वि ०२२६५ ) उकोस व सुअनाणी विजाणमाणोवि तेऽभिलप्पेऽवि । न तरइ सबे वोत्तुं न पहुप्पइ जेण कालो से ॥ २ ॥ (वि०१४२३)” ततोऽ
For Private & Personal Use Only
श्रुते १४ प्रकृतिकधनप्रतिज्ञा
| १६-१८
।। ४५ ।।
www.jainelibrary.org