________________
AAAAAACAMAN
चउविहं नेयभेदतो तेण जं तदुवउत्तो। आएसेणं सर्व दबाइ चउविहं मुणइ ॥१॥ आएसोत्ति पगारो ओघादेसण सबदबाई । धम्मत्थियाइयाई जाणइ न उ सबभेदेणं॥२॥" (वि०४०२-४०३) एवं सामान्यादेशेन मतिज्ञानी क्षेत्रतो लोकालोकं जानाति कालतः सर्वकालं, इह यद्यपि क्षेत्रकाली सामान्येन द्रव्यान्तर्गतौ तथापि निवासमात्रपर्यायमधिकृत्य | क्षेत्रं वर्तनादिरूपतामधिकृत्य कालो भेदेन रूढ इति पृथगुपादानम् , भावत औदयिकादीन पञ्च भावान्, उक्तं च-“खेत्तं लोगालोगं, कालं सबद्धमहब तिविहंपि । पंचोदइयाईए भावे जं नेयमेवइयं ॥१॥" (वि०४०४) तदेवमुक्तं मतिज्ञानम् , साम्प्रतमवसरप्राप्तं श्रुतज्ञानमतस्तत्प्रतिपिपादयिषुरिदमाह
. सुयणाणे पयडीओ वित्थरतो आवि वोच्छामि ॥१६॥ श्रुतज्ञानं-पूर्वव्युत्पादितशब्दं तस्मिन् प्रकृतयो-भेदास्ताः 'विस्तरतः' प्रपञ्चेन पशब्दात् सङ्केपतश्च, अपिशब्दः। सम्भावने स चैतत् सम्भावयति-तदनन्तरं-अवधिप्रकृतीश्च वक्ष्ये-अभिधास्ये । सम्प्रति ता एव श्रुतप्रकृतीदर्शयति--14
पत्तेयमक्खराई अक्खरसंजोग जत्तिया लोए । एवइया सुयनाणे पयडीओ होति नायबा ॥ १७॥ एकमेकं प्रति प्रत्येकमक्षराणि-अकारादीनि अनेकानेकभेदानि, तद्यथा-अकारः सानुनासिको निरनुनासिकच, पुनरेकैकस्त्रिधा-उदात्तोऽनुदात्तः स्वरितश्चेति षोढा अकारः, एवमाकारःप्लुतश्चत्येष्टादशावर्णभेदाः,एवमिवादिष्वपि यथा-1 असम्भवं भेदजातमभिधानीयं, तथा अक्षराणां संयोगा अक्षरसंयोगा ध्यादयो यावन्तो लोके चथा घटः पट इत्यादि व्याघ्रःखी 8 इत्यादि, एते चानन्ताः, ननु सोयानि अकारादीन्यक्षराणि ततस्तेषां संयोगा अपि सङ्ख्येया एव घटन्ते कथमनन्ता इति ?,
CATALAM
Jain Education Inter
For Private & Personal use only
12
ainelibrary.org