________________
बिनलाभसरि
चिरचिते
आत्म
अयोधग्रन्थे
॥ ८३ ॥
Jain Education Inter
यदुक्तमागमे - ' चत्तारि पुरिसञ्जाया पन्नत्ता, तं जहा-पियधम्मे नाम एगे नो दढधम्मे १ दढधम्मे नाम एगे नो २ एगे पियधम्मे वि दढधम्मे वि ३ एगे नो पियधम्मे नो दढधम्मे ४ इत्यादि । अत्र तृतीयभंगस्यैव सर्वोत्कृष्टत्व मुक्तमिति । प्राक्सूचितसुल सावृत्तांतस्त्वयं-अस्मिन् जंबूद्वीपे भरतक्षेत्रे मगधदेशे राजगृहं नाम नगरं तत्र प्रसेनजिभूपतेश्चरणसेवातत्परः स्वोचितकलाकौशलवान् नागनामा सारथिः परिवसति स्म । तस्य पतिव्रतत्वादिप्रवरगुणालंकृता प्रधानजिनधर्मानुरागिणी सुलसा नाम प्रियाऽऽसीत् | एकदा नागसारथिः कुत्रापि गृहे कंचि द्गृहस्थं प्रभूततरप्रमोदेन स्वकीयोत्संगे पुत्रान् लालयंतं विलोक्य, स्वयं पुत्राभावदुःखेन पीडितमानसः सन् करतले मुखं विन्यस्य चिंतयति स्म - ' अहो मंदभाग्योऽहं यन्ममैकोऽपि पुत्रो नास्ति, धन्योऽयं यदेतस्य बहवो हृदयानंदजनकाः पुत्राः संतिती । ' तदैवं चिंतासमुद्रे मग्नं स्वपतिं विलोक्य सुलसा विनयान्विता मधुरवाण्या प्रोवाच- ' स्वामिन् ! भवञ्चिते का चिंता अथ प्रादुर्भूता । ' सोऽवदीत् -' प्रिये ! अपरा तु कापि चिंता नास्ति, परमेका पुत्राभावचिताऽस्ति, सा चात्यंतं मे ममो व्यथयति । ' ततः पुनः खुलसा प्राह-' स्वामिन् ! चिंतां मा कर्षीः, पुत्रोत्पादनार्थ सुखेनापरकन्यापाणिग्रहणं विधेहि । ' तदा नागो जगाद - ' हे प्राणप्रिये ! ममास्मिन् जन्मनि त्वमेव प्रियाऽसि, त्यद्व्यतिरिक्ताः स्त्रियो मनसाप्यहं न प्रार्थये, त्वत्कुक्षिसंभवमेव च पुत्ररत्नं वांछामि, तस्मात् हे कांते ! त्वमेव कंचिद्देवमाराध्य पुत्रं याचस्व । ' ततः सुलसा प्राह-' हे नाथ ! वांछितार्थसिद्धये अन्यं | देवसमूहं मनसा वचसा कायेन च जीवितांतेऽपि नाराधयामि, परं सर्वेष्टसिद्धिकारणे श्रीमतामर्हतामाराधनं करि
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्वा स्वरूपं
॥ ८३ ॥
www.jainelibrary.org