SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सरि विरचिते आत्म प्राधान्ये कककककछ | स्यात्, भवतां च महान् लाभः संपयेत' इति । तदा आचार्या ऊचुः- युष्मत्पुत्रस्य लौकिकव्यवहारे प्रज्ञा वर्तते ।। न वा।' श्रेष्ठयवोचत्-'अयं हि धर्मविचारं विनान्यत्र निपुणोऽस्ति।' तदाचार्यैरुक्तं- तर्हि अयं सुबोधोऽस्ति. प्रथम: है अवसरेऽत्र प्रेषणीयः। तदनंतरं श्रेष्ठी तत उत्थाय स्वगृहं गत्वा, पुत्रसमक्षमाचार्यगुणानकथयत्-'अहो! आचा- प्रकाशे यात्रिकालदर्शिनः सर्वेषां सुखदुःखप्रवृत्ति विदंति, हे पुत्र त्वयापि प्रष्टव्या'ततः प्रतिपन्नं कमलेन पितृवचनं। सम्यक्त | अवसरेसतत्र गत्वा तांश्च नत्वापाविशत्। आचार्याश्चैतद्भावमाराधयितुकामा ऊचुः-'भोः कमलात्वत्करतले मणिबंधे | मत्स्यमुखसंयुक्ता द्राधीयसी धनरेखा दृश्यते ।' कमलेनोक्तं-'किमस्याः फलं ? ।' सरिभिरुक्तं-'मच्छेण य सह-18 सधणं' इत्यादि । पुनरपि त्वत्कररेखादर्शनेन वयं विद्मस्तव शुक्लपक्षे जन्म, तत्सामयिका एते ग्रहा अपि भविव्यंति ।' ततश्चमकृतः कमलः सपधुत्थाय स्वगृहाजन्मपत्रिकामादाय गुरुं दर्शितवान् , गुरुणापि ग्रहास्तथैवैनं । दर्शिताः, अमुकवत्सरे तव परिणयनं जातं, अमुकवत्सरे तव तापातिरभूत इत्यादि चोक्तं । तत इत्थं गुरुवचः श्रुत्वा कमलो गृहमागत्य पितरमवादीत्-'अहो! पूज्यास्त्रिकालदर्शिन्' इति । अथ स प्रत्यहं गुरुं वंदनार्थमायाति । पूज्या अपि तस्मिन्नेव नगरे चतुर्मासी तस्थुः। प्रत्यहं सुभाषितैः कौतुककथाभिश्च कमलचित्तमाराधयामासुः। कौतुककथांतरे धर्मविचारमपि प्रस्तावयंति स्म । एवं च कियता कालेन कमलः सविशेषं धर्मज्ञो बभूव, क्रमेण गुरुणांपाचे द्वादश व्रतानि जग्राह। गुरुप्रसादेन पितुः सकाशादप्यधिकतरो दृढधों स समर्जा आचार्या अन्यत्र विजहः, कमलश्च चिरकालं श्राद्धधर्म प्रपाल्य प्रांते सद्गतिभाग्जातः एवमन्यैरपि सम्यग्दृष्ट ॐॐॐॐSSANI Jain Education inte For Private & Personal Use Only M ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy