________________
जिनलाभ सूरि विरचिते
आत्म
अबोधग्रन्थे
॥ ७८ ॥
Jain Education Inter
चेयं-- एकस्मिन्नगरे एको धननामा श्रेष्ठी परमश्रावको धमवान् बुद्धिमान् सर्वजममाम्यो वसति । तस्य च पुत्रः कमलनामा, स च कलावानपि धर्मो तत्त्वविचारे चारुचिमान् । पिता यदा कंचित्तत्त्वविचारं शिक्षयति तदा उत्थाय व्रजति । ततः श्रेष्ठी केनापि प्रकारेण तं बोधयितुमसमर्थः सन् चिंतयति स्म - ' यदि कोऽप्याचार्योऽत्र समायाति तर्हि वरं, यतस्तत्सेवनादस्य धर्मप्राप्तिः स्यात्' इति । अथैकदा कश्चिदाचार्यस्तन्नगरसमीपवने समवसृतः । तदा नगरलोकैः सह धनश्रेष्ठी वंदनार्थं गतः, गुरुभिर्धर्मोपदेशो दत्तः, ततो देशनांते सर्वे लोकाः स्वस्थानं गताः । तदा घनश्रेष्ठी आचार्य प्रत्येवं विज्ञपयति स्म - ' स्वामिन् ! मत्पुत्रः कमलनामा अत्यंतं धर्मविचारे अज्ञोऽस्ति, स च गीतार्थैर्भवद्भि: कथंचिद्बोधनीयः । ' प्रतिपन्नं चाचार्यैस्तद्वचः । ततः श्रेष्ठयपि गृहमागत्य पुत्रमुक्तवान्- ' अहो ! अब गीतार्थ गुरवो वने समायाताः संति, त्वया तत्र गत्वा तद्वचः श्रोतव्यं ' इति पित्रा प्रेरितः कमलोऽपि तत्र गत्वा अधोदृष्टिरेव गुरोः पुरतो न्यषीदत् । आचार्यैश्च सप्तनययुक्तद्रव्यगुणपर्यायविचारगर्भिता देशना दत्ता । ततो |देशनांते आचार्यैः पृष्टं-' भो भद्र ! इयत्यां वेलायां त्वया किमप्यवबुद्धं ? । ' कमलेनोक्तं- ' किंचित्त्ववबुद्धं । ' पुनराचार्यैः पृष्टं - ' किं ज्ञातं ? ।' सोऽवादीत् -' एतन्निकटवर्त्तिबदरीवृक्षमूलस्थितबिलान्मत्कोटका अष्टोत्तरशतं निर्गत्यान्यत्र बिले प्रविष्टाः, एतद् ज्ञातं । ' पुनराचार्योऽभाणीत्--' अरे ! अस्मदुक्तं किमपि ज्ञातं ? । ' तेनोक्तं-'न हि ।' ततोऽयोग्योऽयमिति किंचित्याचार्या मौनमाधाय तस्थुः । कमलश्चोत्थाय स्वगृहं गतः ॥ ततो द्वितीयदिने वंदनार्थमागतस्य तत्पितुरेतचेष्टितं निवेद्याचार्या अन्यत्र विजहुः । अथैकदा अन्ये आचार्यास्तत्रैव बने समवसृताः ।
For Private & Personal Use Only
प्रथमः
प्रका सम्यक्त्व स्वरूप
॥ ७८ ॥
www.jainelibrary.org