SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥ ७७ ॥ Jain Education Intern सिद्धसेनाचार्यः प्राह-' भूरिभारभराक्रांतः, स्कंधः किं तव बाधति ? । ' इह बाधतीति आत्मनेपदस्थाने परस्मैपदमित्यपशब्दो गर्वेण तेन न ज्ञातः । ततो गुरुभिरुक्तं-' न तथा बाधते स्कंधो, यथा बाधति बाधते ॥ १ ॥ ' इति श्रुत्वा स चमत्कृतः कोऽयमिति ? ततो वृद्धवादिगुरुं ज्ञात्वा सद्यः सुखासनादुत्तीर्य पादयोः पतितः, ' क्षम्यतां ममापराध' इति पुनः पुनः प्रोवाच । ततो गुरुभिः पुनः प्रतिबोध्य संघसमक्षं मिथ्यादुष्कृतदानपूर्वकं गच्छमध्ये गृहीतः, ततश्च श्रीसिद्धसेनदिवाकराश्चिरकालं वीरतीर्थप्रभावनां कृत्वा प्रांते सद्गतिभाजो जाताः । इति श्रीसिद्धसेनवृत्तांतः ॥ अयं कविर्नामाष्टमः प्रभावकोऽवसेयः ॥ ८ ॥ एते प्रवचन्यादयो अष्टौ प्रभावयंति स्वतः प्रकाशकस्वभावमेव प्रवचनं देशकालादियोग्यतया साहाय्यकरणात्प्रकाशयंतीति प्रभावकाः कथिताः, एतेषां च क्रिया प्रभावना, सा च सम्यक्त्वं निर्मलीकरोतीति ॥ प्रकारांतरेणापि अष्टौ प्रभावका उक्ताः संति, तथाहि अइसेसइढि १ धम्महि २, बाइ ३ आयरिय ४ खवग ५ नेमित्ती ६ । विखा य ७ रायगणसं मया य ८ तित्थं पभावंति ॥ १ ॥ स्फुटार्थेयं गाथा, नवरं अतिरेषा अवधिमनः पर्या यज्ञानामषैषध्यादयोऽतिशपास्ते ऋद्धिर्यस्यासौ अतिशेबर्द्धिः क्षपकस्तपस्वी, राजसंमता नृपवल्लभाः, गणसंमता महाजनादिबहुमताः इति प्रभावकाष्टकं व्याख्यातं ॥ अथ भूषणपंचकं व्याख्यायते - जिनेत्यादि - तत्राद्यं भूषणं जिनशासने अर्हद्दर्शनविषये कौशलं निपुणत्वं, तच्च सम्यक्त्वं भूषयतीत्यतः सम्यग्दृष्टिभिर्विशेषतस्तदुपार्जने यतितव्यं, यतोऽर्हद्दर्शमे कुशलः पुमान् द्रव्यक्षेत्रकालभाचायनुसारेण नानाप्रकारैरुपायैरज्ञमपि परं सुखेनैव प्रतिबोधयति यथा कमलप्रतिबोधको गुणाकारः सूरिः, तत्कथा For Private & Personal Use Only प्रथमः प्रकाचे सम्यक्त्व स्वरूप ॥ ७७ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy