________________
जिनलाभसूरि विरचिते
आत्म
प्रबोधग्रन्थे
॥ ७४ ॥
Jain Education Inter
॥ १ ॥ अत एवं जल्पतस्तव महाप्रायश्चित्तं लग्नं' इत्युक्त्वा गच्छाद्वहिः कृतः । ततः संघेनागत्य विज्ञशिः कृता" स्वामिन् ! अयं महाकवित्वादिगुणसंपन्नत्वात्प्रवचनस्य प्रभावकोऽस्ति, अतो गच्छाइहिर्न कार्यः । ' एवमत्याग्रहे क्रियमाणे गुरुभिरुक्तं - " यदि द्रव्यतो मुनिवेषं त्यक्त्वा वेषांतरे तिष्ठन् भावतो मुनिस्वरूपमत्यजन् विविधतपांसि कृत्वाऽष्टादश नृपान् प्रतिबोध्ययजैनान् करिष्यति, नवीनं तीर्थं चैकं प्रादुष्करिष्यति तदा तं गच्छमध्ये लास्यामो नान्यथेति । " ततो गुरुवचनमंगी कृत्य स यथोक्तरीत्या विचरन् उञ्जयिनीं गतस्त त्रैकदांश्ववाहनार्थ गच्छता श्रीविक्रमनृपेण रथयांतर्गच्छंत सिद्धसेनाचार्य विलोक्य पृष्टं ' के यूयमिति ? ।' आचार्यैरुक्तं- ' वयं सर्वज्ञपुत्राः । ' ततो राज्ञा मनस्येव नमस्कारे कृते आचार्यैर्हस्तमूर्ध्वोकृत्य उच्चैः स्वरेण धर्मलाभो दत्तः । तदा राज्ञोक्तं' कस्मै धर्मलाभो दीयते । ' आचार्या आहु:-' येनास्मभ्यं नमस्कारः कृतस्तस्मै धर्मलाभः । ' ततो हृष्टो राजा भवद्भिः स्वचरणैर्मदीयं सभास्थानं पवित्रीकर्त्तव्यं ' इत्युक्त्वा स्वस्थानं जगाम । अथैकदा श्रीसिद्धसेनाचार्यः श्रीविक्रमन्नृपस्य नवीनं श्लोकचतुष्टयं कृत्वा राजद्वारे गतः, प्रतिहारमुखेनेत्यवदत् - दिदृक्षुभिक्षुरायातो, द्वारे तिष्ठति वारितः । हस्तन्यस्तचतुः श्लोको, यद्वागच्छतु गच्छतु ॥ १ ॥ राज्ञोत- दीयंतां दश लक्षाणि, शासनानि चतुर्दश । हस्तन्यस्तचतुः श्लोको, यद्वागच्छतु गच्छतु ॥ २ ॥ ततः स नृपसमीपं गतः । तत्र श्रीविक्रमः पूर्वदिशाभिमुखः सिंहासने उपविष्टोऽभूत् । तदा सूरिः श्लोकमेकमपठत् - आहते तव निःस्वाने, स्फुटिते वैरिहृद्घटे । गलिते तत्प्रियानेत्रे, राजचित्रमिदं महत् ॥ १ ॥ इति श्रुत्वा राजा दक्षिणाभिमुखीभूयोपविष्टः, मनसि चिंतितवांश्च पूर्वस्या
4
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूप
॥ ७४ ॥
www.jainelibrary.org