SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ बिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥ ७२ ॥ Jain Education Inter मनागपि भोजनस्वादं न विवेद। भोजनानंगरं च जलस्तं भकौतुकदर्शनसमुत्सुकेन श्राद्धादिबहुजनेन परिकरितः स तापसो नद्यास्तीरं संप्राप्तः । अथ 'प्रक्षालितेऽपि पादत्रये लेपांशः किंचिदद्यापि विद्यते' इति विचित्य, स नद्यां प्रविशन्नेव शीघ्रं बुडबुडारावं कुर्वन् बुडितुं लग्नः । ततोऽनुकंपया श्राद्धैर्बहिर्निष्कासितः । तदा ' अहो ! अमुना मायिना चिरं वयं वंचिता' इत्यादि चिंतयतो मिथ्यात्वनोऽपि जिनधर्मानुरक्ता जाताः, ततश्च जिनशासनप्रभावनां कर्तुकामा विविधयोगसंयोगविदः श्री आर्यसमित सूरयोऽपि तत्र संप्राप्ताः, नयंतराले चूर्णविशेषं प्रक्षिप्य सर्वलोकसमक्षं कथयामासुच ' बेन्ने ! वयं तव परं पारं गंतुमिच्छाम ' इति । ततो झटिति मिलितं तस्याः कूलद्वयं । तत्स्वरूपंदृष्ट्वा विस्मिताः सर्वेऽपि लोकाः, तदनंतरं अमंदानंदपूर्णचतुर्वर्णसंघ परिकरिता आचार्याः परपार - भूमिं प्राप्ताः । तत्र सद्भूतधर्मोपदेशदानतः सर्वानपि तापसान् प्रतिबोधितवंतः । ततो दूरीभूतनिखिलमिथ्यास्वमलास्ते सर्वेऽपि तापसाः श्रीगुरूणां पार्श्वे प्रव्रज्यां जगृहुः, तेभ्यश्च तापससाधुभ्यो ब्रह्मद्वीपिका शाखा श्रुतविश्रुता जाता । अथ श्री आर्यसमितसुरय इत्थं प्रचंडपाखंडिमतखंडनेन भूयसीं जिनमतप्रभावनां विधाय परमजिनधर्मानुरतभव्यजनमनांसि प्रभोदमेदुराणि कृत्वान्यत्र विहृतवंतः । ते श्रावका अपि विविधधर्मक्रियाभिर्जि नशासनोन्नतिंकुर्वाणाः सुखेन गृहधर्मं प्रपात्य क्रमेण सुगतेर्भाजनं जाताः । इत्यार्यसमित सूरिवृत्तांतः । अयं सिद्धो नाम सप्तमः प्रभावको ज्ञेयः ॥७॥ तथा कवते नवनववचनरचनाविराजितश्रोतृजन मनःप्रमोदसमुत्पादकविविधभाषाविभूषिततहृद्यगद्यपद्यप्रबंधैर्वर्णनं करोतीति कविः । अयं हि सद्भूतधर्मवृद्ध्यर्थं प्रवचनप्रभावनार्थं च शोभनव For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥ ७२ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy