________________
LSSSSSS
परिषदि प्रतिपक्षनिराकरणपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वांदी, निरुपमवादिलब्धिसंपन्नत्वेन वावदूकजिनलाभसरि 18 वादिवृंदारकर्बुदैरपि अमंदीकृतवाग्विभव इत्यर्थः । अयं च मल्लवादिवत्प्रत्यक्षादिसकलप्रमाणकुशलः प्रतिपादि-15 प्रथम जयाद्राजबारेऽपि लब्धमाहात्म्यस्तृतीयः प्रभावको बोध्यः । इह मल्लवादिवृत्तांतो ग्रंथांतरादवसेयः॥ ३ ॥ तथा
प्रकाशे विरचिते निमित्तं त्रैकालिकलाभाऽलाभादि प्रतिपादकं शास्त्रं तद्वेत्ति अधीते वा नैमित्तिकः। यो हि जिनमतप्रत्यनीकान्
सम्यक्त्व आत्म
खरूप प्रबोधग्रन्थे पराजयं नेतुं भद्रबाहुस्वाम्यादिवत् सुनिश्चितं निमित्तं वदति स नैमित्तिको नाम चतुर्थः प्रभावको बोध्यः, भद्र
॥७०॥ ॥७ ॥ बाहुस्वामिवृत्तांतस्तु प्रसिद्ध एवेति नेहोच्यते ॥४॥ तथाविकृष्टमष्टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपस्वी, यः
परमोपशमरससंभृतः सन् अष्टमदशमपक्षक्षपणमासक्षपणादिविविधतपश्चर्यया जिनमतोद्धासनं विदधाति स श्रीबीरवर्णितकाकंदिकधन्नाख्यसाध्वादिवत्तपस्वी नाम पंचमः प्रभावको ज्ञेयः ॥५॥ तथा विद्याः प्रज्ञप्त्यादयः | शासनव्यस्ताः साहायके यस्य स विद्यावान् । अयं च श्रीवज्रस्वामिवत् षष्ठः प्रभावको ज्ञातव्यः, वज्रस्वामिवृ-14 त्तांसस्तु प्रसिद्ध एव ॥ ६ ॥ तथा सिद्धयति स्मेति सिद्धः, चूर्णाजनपादलेपतिलकगुटिकासकलभूताकर्षणवैक्रियत्वप्रभृतिभिर्विविधसिद्धिभिः संपन्न इत्यर्थः । अयं च संघादिकार्यसाधनार्थ मिथ्यात्वविद्रावणार्थ जिनप्रवचनप्रभावनार्थ च चूर्णांजनादिसिद्धीनां यथावसरं प्रयोक्ता आर्यसमितसूर्यादिवत्सप्तमः प्रभावको बोध्यः। तत्रार्यसमितसूरिकथानकं चेदं-आमीरदेशेऽचलपुरं नाम नगरमासीत्, तत्र बहवो जिनप्रवचनप्रभावनाकरणपरायणाः सुमहर्द्धिकाः श्राद्धाः परिवसंति । तस्याचलपुरस्यासन्नप्रदेशे पुनः कनाबेन्नानद्योर्मध्ये एको ब्रह्मद्वीपोऽस्ति, तत्र
RESS
SSSSE
Jain Education Inter
For Private & Personal use only
alww.jainelibrary.org