SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ जिनलाभपूरि विरचिते आत्मप्रयोधग्रन्थे ॥ ६९ ॥ Jain Education Intern धनं प्रसय त्वमेव भुंक्ष्व' इत्यादिभिर्मोहप्रकृतिभिरिव स्नेहवाग्भिर्मुनिमनः क्षुभितं । ततोऽयं तद्वशगो भूत्वा भोगकर्मोदयेन तत्रैव तस्थौ । परं मया प्रत्यहं दश पुरुषा धर्म नेतव्या इति नियमयामास । यदात्र नियमे एकोऽपि न्यूनस्तदा मयैव तत्स्थाने भवितव्यमिति पणितवान् । अतः परं वेश्यापाटकद्वारे मुनिः स्थित्वा तत्रागतान् कामिजनान् विविधयुक्तियुक्ताभिराक्षेपण्यादिधर्मकथाभिर्धर्मं ग्राहयति, कांस्कान् प्रतिबोध्य श्रीजिनेश्वरांतिके महाव्रतानि ग्राहयति, कांश्चित्पुनर्द्वादशव्रतधरान् कारयति । एवं प्रत्यहं धर्मकथाभिर्भव्यजनान् प्रतिबोधयन् स्वयं शुद्धश्राद्धधर्म प्रपालयन् द्वादश वर्षाणि गमयित्वा निर्जीर्णभोगकर्मा सन् एकस्मिन् दिने नव जनान् प्रतिबोधितवान्, दशमस्त्वेकः स्वर्णकारः समेतः, स च विविध युक्त्या प्रतिबोध्यमानोऽपि धृष्टत्वान्न प्रतिबुद्धः, प्रत्युत | इत्थं जजल्प-' ननु विषयपंकनिमग्रं स्वमात्मानं बोधयितुमशक्तस्त्वं परं किं बोधयिष्यसि ?' इति । तावता गणिकया भोजनार्थं नंदिषेणः समाहूतः परं प्रतिज्ञापूर्ति बिना भोजनं नेच्छति । द्वित्रा रसवत्यः शीतलीभूताः, ततो | वेश्यया तत्रागत्य उपहासपूर्वक मुक्तं - 'स्वामिन्नद्य भवतैव दशमस्थाने भवितव्यमिति प्रतिज्ञापूर्ति कृत्वागत्यः भुंक्ष्व । ' एवमुक्ते समाप्त भोगकर्मोदयो नंदिषेणमुनिः पुनर्वेषमादाय श्रीभगवदंतिके पुनर्महाव्रतानि जग्राह, चारित्रं च निर्मलं प्रतिपालय प्रांते समाधिना मृत्वा दिवं ययौ । ततश्च्युत्वा महाविदेहे सेत्स्यति । इदं च श्रीवीरचरित्रानुसारेणोक्तं । महानिशीथसूत्रे तु केवलप्राप्तिरुक्तास्ति । इह तत्त्वं तु सर्वविदो विदंति । इत्ययं धर्मकथी नाम द्वितीयः प्रवचनप्रभावकोऽवसेयः, इति नंदिषेणवृत्तांतः ॥ २ ॥ तथा वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरंगायां For Private & Personal Use Only प्रथमः प्रकाचे सम्यक्त्व स्वरूप ॥ ६९ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy