________________
बिनलाभसूरि विरचिते
आत्म
प्रबोधग्रन्थे ॥ ६७ ॥
Jain Education Inter
पुत्रैश्च तत्प्रतिपालना कृता, हस्तिन्यपि तत्रागत्य तं स्तन्यं पाययति, एवं च स गजपोतस्तापसपुत्रैः समं खेलति, तैश्च बालैः सहाश्रमपादपान् नदीतः शुंडया जल मानीय सिंचति । एवं वृक्षसेचनक्रियांकुर्वाणं गजपोतं विलोक्यास्य सेचनक इति नाम दत्तं । एवं तंत्र वर्द्धमानस्त्रिंशद्वार्षिकः कलभो जातः । अथ चैकदा वने भ्रमन् तं यूथपतिं ददर्श । तारुण्येनोत्कटबलस्तं वृद्धगजं हत्वा स्वयं यूथपतिर्बभूव । अनेन च विसृष्टं ' यथा मे जननी तापसाश्रमे मां सुषुवे तथान्याप्यत्र मा सविष्ट' इति ध्यात्वा स्वयूथमानीय तमाश्रमं बभंज । रुष्टास्तापसा श्रेणिकनृपं तं | गजरत्नं ज्ञापयामासुः । राज्ञापि कैश्चित्प्रयोगैः स बंधनं नीतः, आलाने निगडैर्बद्धश्च । तदा तापसैश्चालोक्य स वाग्भिस्तर्जितो - ' यादृशं कर्म कृतं तादृशमेव त्वया फलं प्राप्तमिति' वाक्यै रुष्टो गजो बंधनानि त्रोटयित्वा तापसानू हंतुं दुद्राव, भग्नास्तापसाः, व्याकुलो व उच्छलितः, तदा श्रेणिकपुत्रो नंदिषेणस्तं वशीकर्त्तुं तत्रायातः, तद्दर्शनाच्च तत्कालं स्वस्थी भूय ईहापोहं कुर्वतस्तस्य गजस्यावधिज्ञान (जातिस्मरण) मुत्पन्नं, ततो ज्ञातस्तेन सर्वोऽपि प्राग्भववृत्तांतः । नंदिषेणोऽपि पूर्वभवस्नेहेन तं गजं सद्वाक्यैः संतोष्य स्कंधाधिरोहणपूर्वकमालाने आनीय बद्धवान् । तदा तुष्टेन तातेन नंदिषेणः सत्कृतः परिणायितः पंचशतकन्याभिः । एकदा भगवान् श्रीमहावीरो राजगृहे समवसृतः, तद्वंदनार्थ पित्रासमं नंदिषेणोऽपि गतः, तत्र भगवद्देशनां श्रुत्वा प्रतिबुद्धः स प्रव्रज्यानुज्ञां श्रीभगवतो ययाचे । भगवानपि अस्माद्धर्मवृद्धिं विज्ञाय यथासुखं देवानुप्रियेत्यवादीत् परं मा प्रतिबंधं कार्षीरिति द्वितीयं वाक्यं व्रतविघ्नमालोक्य नोवाच । अथ गृहे मातापितृ [ प्रभृतिवचन ] प्रतिवचनानंतरं प्रव्रज्यामहोत्सवे
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व स्वरूपं
॥ ६७ ॥
www.jainelibrary.org