SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सरि प्रकारे श्रवणमात्रेण, भवेन्मोक्षाभिलाषिताः। भव्यानां सा च विद्वद्भिः, प्रोक्ता संवेदनी कथा ॥३॥ यत्र संसारभोगांजिनलाभ- ग-स्थितिलक्षणवर्णनं । वैराग्यकारणं भव्यैः, सोक्ता निर्वेदनी कथा ॥ ४ ॥ इति ॥ इह प्राकसूचितनंदिषेणवृत्तां- प्रथमः I तस्त्वयं-एकस्मिन्नगरे एको धनवान् मुखप्रियनोमा ब्राह्मणो वसति स्म । स मिथ्यात्वमोहितः सन् एकदा यज्ञ विरचिते कर्तुमारेमे तत्र राद्धानरक्षायां भीमनामानं स्वदासमादिष्टवान् । तेनापि स्वस्वामी ब्राह्मणोविज्ञप्त:-'यदि विप्र-| | सम्यक्त्व आत्म भोजनानंतरं अवशिष्टान्नं मह्यं दास्यथ तदाहमन्त्र रक्षको भविष्यामि' इत्युक्ते विप्रेणापि तद्वचः प्रतिपन्नं । गृहप्रबोधनन्थे ॥ ६६ ॥ स्वामिना ब्राह्मणा भोजिताः, अवशिष्टान्नं सर्व दासाय दत्तं, तेन च सम्यग्दृष्टिना साधवः प्रतिलाभिताः, अन्येऽपि दर्शनिनोऽनुकंपया दानपात्रीकताः तेन महाभोगकर्मोपार्जितं । अथ कियत्यपि काले स दासो मृत्वा |ऽभूत् । ततोऽपि च्युत्वा राजगृहे श्रेणिकनृपस्य पुत्रत्वेनोत्पन्नः, नंदिषण इति तस्य नामासीत् । तस्मिन्नेवावसरे विप्रजीवोऽपि कांश्चिद्भवान् भ्रांत्वा कदलीवने हस्तिनीयूथे एकस्या हस्तिन्याः कुक्षौ गर्भत्वेनोत्पन्नः । तस्मिन् यूथे 8 |तु यूथपतिर्गजोऽन्यगजपराभवं विशंकमानो हस्तिनीनां प्रसवसमये एव जातं जातं गजं निहंति । हस्तिनीं जातां रक्षति तदा यस्याः कुक्षौ स ब्राह्मणजीव उत्पन्नोऽस्ति सा हस्तिनी स्वगर्भस्याकुशलं विदित्वा कपटेनैव पादेन खजीभूय शनैः शनैः हास्तिकपृष्ठतश्चलति, यामचतुष्टयानंतरं यूथेन सह मिलति । एवं कदाचिद् द्वाहानंतरं त्र्यहावतरं वा मिलति । एवं च सा कुर्वती अन्यदा तापसाश्रमे गत्वा पुष्करेण तापसपादान् स्पृशंती तापसाननाम । तापसैरपि तां गुर्विणीति ज्ञात्वा ते गर्भः कुशली भवत्वित्याश्वासिता, सा चैकदा तत्राश्रमे सुतमसूत, तापस SARAA% Jain Education Intem For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy