________________
जिनलाभसूरि
विरचिते
आत्म
प्रबोधग्रन्थे ॥ ६५ ॥
Jain Education Inter
साधारणद्रव्यं च मेलनीयं” इत्युक्ता देवर्द्धिगणिक्षमाश्रमणा वल्लभ्यां पुरि समागताः, मेलिता देवेन सर्वापि पुस्तकलेखन सामग्री । ततो वृद्धैर्गीतायैर्यथा यथांगोपांगानां आलापका उक्तास्तथा तथा पूर्व खरटरूपेण लिखितास्ततः पुनः संयोजनां कृत्वा देवर्द्धिगणिना मूलपत्रेषुलेखिताः, अत एवांगेषु उपांगानामालापकाः साक्षिणः, मध्ये मध्ये विसंवादोऽपि संख्याया अनियमोऽपि मध्ये मध्ये माधुरीवाचनापि च दृश्यते । तथा पूर्वमार्यरक्षितेन सिद्धांतेषु पृथगनुयोगः कृतः, पुनः स्कंदिलाचार्येण वाचना कृता, देवर्द्धिगणिना च पुस्तकारूढः कृतः, तेन सुधर्मस्वामिवच नानि विसंस्थुलानीव दृश्यंते । तत्र दुःषमानुभाव एव प्रमाणं, परमत्र जिनागमे सम्यग्वग्भिः संशयो न कार्यः । तस्मिन्नवसरे देवसांनिध्याद्वर्षमध्ये जैन पुस्तककोटिर्लिखिता । अथ किंचित्पूर्वगतश्रुनधारकाः श्रीवीरनिर्वाणादशी|त्यधिकनवशतवर्षातिक्रमे सर्वसिद्धांत लेखकारका युगप्रधानपदं बिभ्राणाः श्रीदेवर्द्धिगणिक्षमाश्रमणा बहुधा श्रीजिनशासनप्रभावनां कृत्वा प्रांते श्रीशत्रुञ्जयेऽनशनं विधाय स्वर्ग गताः । इति श्रीदेवर्द्धिगणिक्षमाश्रमणवृत्तांतः ॥ एवंविधा आचार्यांः श्रीजिनप्रवचनप्रभावकाबोध्यः १ ॥ तथा धर्मकथा प्रशस्यास्ति अस्येति धर्मकथी । यः श्रीराश्रवादिलब्धिसंपन्नः सन् सजलजलधरध्वनितानुकारिणाशब्देन आक्षेपणीविक्षेपणीसंवेदनीनिर्वेदनीलक्षणां चतुर्विधां जनितजनमनःप्रमोदप्रथां धर्मकथां कथयति स बहुलभव्यजनप्रतिबोधको नंदिषेणादिवद्धर्मकथी बोध्यः । कथाचतुष्टयलक्षणं त्विदं-स्थाप्यते हेतुदृष्टांतैः स्वमतं यत्र पंडितैः । स्याद्वादध्वनिसंयुक्तं, सा कथाक्षेपणी मता ॥ १ ॥ मिथ्यादृशां मतं पत्र, पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिः, सा च विक्षेपणी मता ॥ २ ॥ यस्याः
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूप
॥ ६५ ॥
www.jainelibrary.org