________________
सरि
कथमेष दुराशयस्तस्या विध्वंसनं करोतीति । ततो वरुणः प्राह-'राजन् ! वयं खतीर्थे न हि कस्याप्यविधि कर्नु । जिनलाभ- | दद्म' इत्यादि । अथ तयोर्वचनं निशम्य संशयमापन्नो नृपः प्रोवाच-' को जानाति कस्येदं तीर्थमस्ति ।, ततो
प्रथमः है धनः प्राह-"स्वामिन्नस्माकमेवेदं तीर्थ, यतोऽस्माकं चैत्यवंदनमध्ये चिरंतनी उर्जितसेलसिहरे' इत्यादिका गाथा
प्रकाशे विरचिते
सम्यक्त्व विद्यते। यद्यत्र भवतामप्रत्ययो भवेत्तर्हि अस्मत्संघे सर्वानपि शिशुतरुणवृद्धान् अधुनैव चैत्यवंदनसूत्रं पाठयत।" बास्म
तदा वरुणोऽवादीत्-'को जानात्यनेन नवि नैव गाथा निष्पाद्य सकलसंघाय शिक्षिता भविष्यतीति।' ततो नृपः ॥५२॥ ॥५२॥
प्रत्ययनिमित्तमेकं स्वपुरुषं पवनगतिकरभिकया स्वनगरासनसिणवल्लिग्रामात् शीलादिगुणैःप्रसिद्धां परमजिनधर्मानुरागिणो धनदेवश्रेष्ठिनः पुत्री सत्वरं तत्रानायितवान् । आनाय्य च श्वेताम्बराशाम्बरसंघसमक्ष नृपेण सा पृष्टा-'पुत्रि! त्वां प्रति चैत्यवन्दनं समायाति ? ।' तयोक्तं-'स्वामिन् ! सम्यग् रीत्या ।' 'एवं तर्हि शीघं तत् कथयस्व ।' सापि च नृपादेशादतिगंभीरस्वरेण सकलमपि चैत्यवंदनं तावत्पपाठ यावदेषा गाथा-उजिंतसेलसिहरे, दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवटिं, अरिहनेमि नमसामि ॥१॥त्ति । अथैतत् श्रुत्वा विक्रमनृपः सकललोकसहितो हर्षादुल्लसितमानसः सन् इत्थं प्रोवाच-'जयति स्म जयति स्म श्वेतांबरसंघो नूनमेततीर्थमेतस्यास्तीति ।' ततः पराजितो वरुणश्रेष्ठी स्वसंघसहितो लोकमुखात्स्वनिंदां तत्प्रशंसांच शृण्वन् विमन|स्कीभूय स्वस्थानं जगाम । अथ तद्दिनादारभ्य एषा गाथा चैत्यवंदनमध्ये पठ्यते । यद्यपीयं गाथा अविरतिदेव- | तानिर्मितत्वेन विरतिमा पठितुमयुक्ता तथापि शासनोन्नतिहेतुत्वेन गीतार्थैरशठैः पूर्वसूरिभिरनिषिद्धत्वात्
in
an inte
For Private Personal Use Only
Show.jainelibrary.org