SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आत्म शेषान्ये ॥ ४३ ॥ Jain Education Internatio धा पूजा प्रोक्ता । अथ पंचविधा प्रोच्यते - पुष्पाद्यच १ तदाज्ञा २ च तद्द्द्रव्यपरिरक्षणं ३ । उत्सव ४ स्तीर्थयात्रा ५ च, भक्तिः पंचविधा जिने ॥ १९ ॥ व्याख्या - श्रीजिनेंद्रे पंचप्रकारा भक्तिर्भवति । तत्र केतकचंपकजातीयूथिकाशतपत्रादिविविधपुष्पैर्धूपदीपचंदनादिभिश्च यदर्चनं सा प्रथमा भक्तिः १ । तथा श्रीजिनेंद्रस्याज्ञायाः सम्यगू मनोवाक्कायैः परिपालनं सा द्वितीया भक्तिः २ । जिनाज्ञा हि सर्वधर्मकृत्यानां मूलकारणमस्ति, ततो जिनाज्ञां | विना सर्वमपि धर्मकार्यं निरर्थकमेवेति विज्ञाय जिनाज्ञायां विशेषतो यतितव्यं । उक्तं च-आणाइ तवो आणइ संजमो तह य दाणमाणाए । आणारहिओ धम्मो, पलालपूल व्व पडिहाइ ॥ १ ॥ अपि च-भमिओ भवो अणंतो, तुह आणाविरहिएहिं जीवेहिं । पुण भमियव्वो तेहिं, जेहिं नंगीकया आणा ॥ २ ॥ जो न कुणइ तुह आणं, सो आणं कुणइ तिहुअणजणस्स । जो पुण कुणइ जिणाणं, तस्साणा तिहुअणे चैव ॥ ३ ॥ इति तथा देवसंबंधिद्रव्यस्य सम्यग् रीत्या रक्षणं वृद्धिकरणं च तृतीया भक्तिः । यतोऽस्मिन् संसारे स्वद्रव्यरक्षणादौ तु सर्वेऽपि प्राणिनस्तत्पराः संत्येव परं देवद्रव्यरक्षणादौ कस्याप्युत्तमस्यैव प्रवृत्तिर्भवति । ये पुनर्देवद्रव्यस्य रक्षणादौ सम्यक प्रवर्तते, ते प्राणिनोऽत्र परत्र च लोके महासुखश्रेणिसंपन्ना भवति । ये च तद्भक्षणादि कुर्वति ते उभयत्रापि घोरतरदुःखभाजः स्युः । उक्तं च- जिणपवयणवुढिकरं, पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ ॥ १ ॥ जिणपवयणवुद्धिकरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ॥ २ ॥ परित त्ति परिमितभवस्थितिरित्यर्थः । जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं वÍतो जि For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥ ४३ ॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy