________________
आत्म
प्रबोधग्रन्थे ॥ ४२ ॥
Jain Education Interna
जाता, पूर्वभवस्नेहाच ते गृहं न मुंचति ।" एतत् श्रुत्वा सर्वेऽपि श्रेष्ठद्यादयो लोका देवसंबंधिवस्तूपभोगस्य एतादृक् फलं विज्ञाय तत्परित्यागे यत्नवंतः संजाताः । ततो गुरुं नत्वा ते स्वं स्वं स्थानं संप्राप्ताः । इति प्रदीपाधिकारे देवसेनजननीदृष्टांतः । अमुं दृष्टांतं निशम्य संसार भीरुभिर्भव्यैर्देवप्रदीपादिना स्वकार्य न कर्त्तव्यं, देवनिर्माल्यं स्वल्पमपि न ग्राह्यं देवश्रीखंडतिलकं न कार्य, देवजलेन हस्तपादाद्यपि न प्रक्षाल्यं, देवद्रव्यं व्याजेन न ग्राह्यं, अन्यदपि देववस्तु स्वकार्ये न प्रयोज्यमिति द्वितीया अग्रपूजा । अथ तृतीया भवपूजा उच्यते - सा च जिनवंद नस्तवनस्मरणादिभिर्भवति । तत्र प्रथमं चैत्यवंदनोचितदेशे स्थित्वा चैत्यवंदनं कार्य, शक्रस्तवादि वाच्यं, तथा लोकोत्तरसद्भूततीर्थकर गुणगणवर्णनपरैर्वचनैः स्तुतिर्विधेया । ततो हृदयकमलकोशे श्रीजिनेद्रं संस्थाप्य तद्गुणस्मरणं कार्यं । तथा प्रभोः पुरस्तान्नाटयादि कुर्वता लंकेशादिवदखंडभावो धार्यः । यथा लंकेश्वरेण रावणेनैकदाऽष्ठापदाद्रौ भरतेश्वरकारितस्वस्ववर्णप्रमाणोपेतचतुर्विंशतिजिनप्रासादे ऋषभादीनां द्रव्यपूजां विधाय, मंदोदरीप्रभृतिषोडशसहस्रतः पुरीभिः समं नाट्ये क्रियमाणे स्ववीणातंत्री त्रुटिता, तदा जिनगुणगानरंगभंग भीरुणा स्वस्नसाकृष्य तत्र संदधे, तदा तज्जिनभक्तया तेन तीथकृन्नामकर्मोपार्जित, महाविदेहे स तीर्थकृद्भावी । इत्थमन्यैरपि श्रीजिनपूजायां यत्नो विधेयः । भाष्ये यद्यपि 'गंधव्वनट्टवाइय- लवणजलारत्तियाइ दीवाह । जं किचं तं सव्वं, पिउरइ अग्गपूयाए || १ || ' इत्यादिवचनेन नाट्यमग्रपूजायां भणितं, तथापि नाटयस्य प्रायो भावमिश्रितत्वाद्भावस्य । च प्राधान्येन विवक्षितत्वात्तस्यात्र पठनेऽपि न दोष इति बोध्यमिति भावपूजा तृतीया । एतेन त्रिवि
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं
॥ ४२ ॥
ww.jainelibrary.org