________________
26
आत्मप्रबोधन ॥४॥
SSROSAURUSHOUSE
कार्य, यदि कोऽपि कुर्यात्तर्हि देवसेनजननीवत्तिर्यग्योन्यादिमहादुःखभाजनं स्यात्। उक्तं च-दीपं विधाय देवानामग्रतः पुनरेव हि गृहकार्य न कर्त्तव्यं, कृते तिर्यग्भवं भजेत् ॥ १ ॥ इति । इह देवसेनजननीदृष्टांतस्त्वयं- प्रथमः
इंद्रपुरे अजितसेनो नृपः । देवसेनः श्रेष्ठी। स च परमश्राद्धः सदा धर्मकार्य कुर्वाणः सुखेन कालमतिवाह-12 प्रकाशे यति । अथ तस्मिन्नेव पुरे एको धनसेननामा उष्ट्रवाहकः परिवसति । तत्गृहादेका उष्ट्रिका देवसेनगृहे निरन्तर- सम्यक्त्व मुपैति । धनसेनेन यष्टि प्रहारादिना ताडितापि गृहे न तिष्ठति । ततो दयार्द्रचेतसा देवसेनश्रेष्टिना मूल्येन तां
स्वरूपं
॥४१॥ | गृहीत्वा स्वगृहे रक्षिता । एकदा तत्र धर्मघोषाचार्याः समेतास्तदा बहवो भव्या गुरुवंदनार्थ जग्मुः । श्रेष्ठी देव. है। सेनोऽपि तत्रागतः । ततो गुरुभिर्धर्मोपदेशो दत्तः। स चेत्थं-धर्मो जगतः सारः, सर्वसुखानां प्रधानहेतुत्वात्।
तस्योत्पत्तिर्मनुजात्, सारं तेनैव मानुष्यं ॥ १॥ अपि लभ्यते सुराज्यं, लभ्यन्ते पुरवराणि रम्याणि । न हि लभ्यते विशुद्धः, सर्वज्ञोक्तो महाधर्मः ॥२॥ न धम्मकजा परमत्थि कज, न पाणिहिंसा परमं अकजं । न पेमरागा परमत्थि बंधो घोहिलाभा परमत्थि लाभो ॥ ३ ॥ ततो भो भव्याः! प्रमादं परित्यज्य श्रीजिनधर्मे रतिं कुरुत, येन भवतां सर्वाथाः सिद्धयतीत्यादि ।” अथोपदेशान्ते देवसेनः श्रेष्ठी गुरुं पप्रच्छस्वामिन् ! एका ममोष्ट्रिका विद्यते सा मद्गृहं विना क्वाप्यन्यत्र न तिष्ठति, तत्र किं कारण ? । सरिणोक्तं- एषा पूर्वभवे तव मातासीत्, एकदाऽनया श्रीजिनाग्रे दीपं विधाय तद्दीपेन स्वगृहकृत्यानि कृतानि, तथा धूपांगारेण चूल्हकः सधुक्षितस्ततः कियता कालेन इतो मृत्वाऽनालोचिततत्कर्मवशात् असौ उष्ट्रिका सं
Jain Education Intemat
For Private & Personal use only
COMw.jainelibrary.org