SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥३८॥ श्रीजिनपूजा कर्तव्या तत्प्रभावाच्च धनसारस्येव सद्यः मकलसुखसमृद्धिवृद्धयादयो भव्यांगिनां गृहेषु प्रादुर्भवंति, दारिधशोकसंतापादयश्च दूरे व्रजति, इदं तु ऐहलौकिकं फलमुक्तं, पारलौकिकं तु स्वर्गमोक्षप्राप्तिलक्षणं बोध्यं । प्रथमः प्रकारे अथ प्राक् सूचितधनसारश्रेष्ठिकथा त्वेवं-कुसुमपुरे धनसारश्रेष्ठी त्रिकालं जिना दिपुण्यपरायणः परिवसति । | सम्यक्त्व एकदा अर्धरात्रसमये तस्य चेतसि अयं विकल्पः समुत्पन्नो-मया खलु प्राग्भवकृतसत्कर्मबलेन इह प्रवर्द्धमान|समृद्धिलब्धा । अथास्मिन् भवेऽपि यदि किंचित् सद्धर्मकर्माचरणं कुर्या तर्हि भवांतरेऽपि सुखसंपन्नो भवेयं । पुनर्याऽसौ समृद्धिरालोक्यते सापि गजकर्णादिवचंचलतरा विद्यते, अतोऽस्याः सफलत्वसंपादनार्थ परत्र सुख सिद्धयर्थ च श्रीजिनप्रासादं कारयिष्ये । यतः शास्त्रे श्रीजिनप्रासादकारयितुर्महापुण्यप्राप्तिरभिहितास्ति । ततः | प्रस्तावदनेनैव कार्येण मया स्वकीयनुभवादिसकलसामग्री सफलीकत्र्तमुचितेति । अथैवं चिंतयत एव तस्यावशिष्टा सर्वापि रजनी सयो व्यतिक्रांता, प्रातःसमयश्च संजातस्तदानीं स श्रेष्ठी स्वन्यायार्जितवित्तेन एकं द्वापंचाशद्दे-18 वकुलिकामंडितं श्रीजिनप्रासादं कारयितुं प्रारब्धवान् । ततस्तत्पुत्राः प्रतिदिनं बहुतरं द्रव्यव्ययं विलोक्य इत्थं प्रोचुः-भोः तात! किमिदं त्वया सकलद्रव्यनाशकं निरर्थक कार्यमारब्धं ? अस्मभ्यं तु एतन्न रोचते । यदि पुनर्न वीनानि गृहाभरणादीनि कारितानि भवेयुस्तदापि समीचीनं, यतस्तानि क्वचित्कालांतरेऽपि कार्यसाधकानि स्युः। ६ तथापि स श्रेष्ठीतत्पुत्रवचनं श्रुतमपि अश्रुतमिव कृत्वा, सोल्लासं प्रवर्धमानपरिणामैव्यव्ययं कुर्वन चत्यं समग्रमपि निष्पादयामास। परं यदा चैत्यं परिपूर्ण जातं तदा कुतोऽप्यंतरायकर्मोदयतः सर्वमपि द्रव्यं व्ययीभूतं, तदा ॐॐॐॐ Jain Education temat For Private & Personal Use Only w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy