SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आत्म प्रबोधन्थे ॥ ३५ ॥ Jain Education Interma कांचनगिरिषु दिग्गजगिरिषु द्रहेषु यमलगिरिषु) च यानि तानि उच्चत्वेन चत्वारिंशदधिकचतुर्दशशतधनुःप्रमाणानि, दैर्येण च एकगच्यूतमानानि, विष्कंभतस्तु अर्धगव्यूतप्रमितानि, ( तथा राजधानीषु व्यंतरनगरेषु ज्योतिष्कविमानेषु च स्थितानां चैत्यानां नवयोजनानि उच्चत्वं, सार्धद्वादशयोजनानि दीर्घत्वं, सपादषट् योजनानि पृधुलत्वमस्तीत्यादि सर्व सुधीभिर्विभाव्यं) इह च नंदीश्वररुचककुंडलद्वीप त्रयस्थायिनां षष्टि (६०) चैत्यानां प्रत्येकं चत्वारि चत्वारि द्वाराणि संति । एतद्व्यतिरिक्तानां तु सर्वेषामपि शाश्वतजिनचैत्यानां त्रीणि त्रीण्येव द्वाराणि बोध्यानि । किं च शाश्वतजिनबिंबानि किल सर्वाण्यपि ऋषभानन ? चंद्रानन २ वारिषेण ३ वर्द्धमाने ४ त्येतनामचतुष्टयेनैव भणितव्यानि तथैवागमे प्रतिपादितत्वादिति प्रोक्ता शाश्वत ( जिन ) चैत्यसंबंधिवक्तव्यता । | अथ भक्तिकृताद्यशाश्वतचैत्यानां गुणदोषादि व्यावर्ण्यते तत्र तावद्भाल १ नामा २ वदन ३ ग्रीवा ४ हृदय ५ नाभि गुह्य ७ सक्खि ८ जानु ९ पिंडिका १० चरणादि ११ केषु स्थानेषु वास्तुकादिग्रन्थोक्तप्रमाणसमन्वितं न यनश्रवणस्कंधकरांगुल्यादिसर्वावयवेष्वदूषितं समचतुरस्रसंस्थानसंस्थितं पर्यकासनेन कायोत्सर्गेण वा विराजितं | सर्वांगसुंदरं विधिना चैत्यादौ प्रतिष्ठितं श्रीजिनबिंबं पूज्यमानं सत् सर्वभव्यानां समीहितार्थसंपादकं भवति । उक्तलक्षणविहीनं तु तदशुभार्थसूचकत्वेन अपूज्यमेव बोध्यम् । तथा यथोक्तलक्षणोपेतमपि बिंबं यदि कथंचिद्रशतादर्वाक स्वावयवेषु दूषितं स्यात्तर्हि तदपि अपूज्यम् । यदि तु उत्तरपुरुषैर्विधिना चैत्यादौ स्थापितं बिंबं व|र्षशतादूर्ध्वं विकलांगं स्यात्तदा तत्पूजनेऽपि न दोषः । यदुक्तं वरिससयाओ उड्ढं, जे बिंबं उत्तमेहि संठवियं । For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥ ३५ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy