________________
आत्मप्रबोधग्रन्थे ॥२८॥
विधानि तु सर्वसंख्यया अष्टशत ८०० कोटयस्त्रयस्त्रिंश ३३ कोटयः षट्सप्तति ७६ लक्षाणि च सति, प्रतिचेत्यमष्टोत्तरशतबिंबसद्भावात् । अथ तिर्यग्लोके तावन्मेरुपंचके पंचाशीति ८५ चैत्यानि, तथाहि-प्रतिमेरु चत्वारि |
प्रथम:
प्रकारे चत्वारि वनानि, प्रतिवनं च चतुर्दिक्षु चत्वारि चत्वारि चैत्यानि, पुनः प्रतिमेरु एकैका चूलिका, तदुपरि चैकैकं ISI
| सम्यक्त्व |चैत्यं, एवमेकैकस्मिन् मेरौ सप्तदश सप्तदश चैत्यानि, ततः सर्वमीलने जातानि पंचाशीति ८५ प्रमितानि । तथा /
स्वरूपं प्रतिमेरु विदिग्भागे चतुर्णां चतुर्णां सद्भावात् विंशति २० गजदंतगिरयः संति, तदुपरि चविंशति २० श्चैत्यानि, ॥२८॥ तथा पंचसु देवकुरुषु पंचसूतरकुरुषु जंबूशाल्मलीप्रभृतयो दश वृक्षाः संति, तत्र च दश चैत्यानि, तथाशीति ८. वक्षस्कारगिरयः संति। प्रतिमहाविदेहं षोडशषोडशसंख्यानां सद्भावात्, तेषामुपरि चाशीति ८० चैत्यानि। तथा प्रतिमहाविदेहं द्वात्रिंशद् द्वात्रिंशत्सद्भावेन, पुनः प्रतिभरतं प्रत्यैरवत चैकैकसद्भावेन सप्तत्य १७० धिकैक-12 शतसंख्या दीर्घवैतात्यगिरयः संति. तेषु च सप्तत्य १७० धिकैकशतप्रमितान्येव चैत्यानि । तथा जंबूद्वीपे षण्णां सद्भावेन, धातकीखंडेषु पुष्करार्द्ध च द्वादशद्वादशसंख्यानां सद्भावेन त्रिंशत्पमिताः कुलगिरयः संति, तेषु च त्रिं|शदेव ३० चैत्यानि । तथा धातकीखंडे पुष्कराधं च द्वौ द्वौ इषुकारगिरी विद्यते, तेषां चतुर्णामुपरि चत्वारि ४ चैत्यानि । तथा समयक्षेत्रसीमाकारिमानुषोत्तरपर्वतोपरि चतुर्दिक्षु चत्वारि चैत्यानि, तथा नंदीश्वरो नामाष्टमो द्वीपस्तत्र द्वापंचाश ५२ चैत्यानि । तथाहि-पूर्वस्यां दिशि नंदीश्वरस्य मध्यदेशे अंजनवर्णोऽजनगिरिरस्ति, तस्य चतुर्दिक्षु चतसृणां वापीनां मध्यस्थाश्चत्वारः श्वेतवर्णा दधिमुखगिरयः संति, तथा तस्यैव चतुर्विदिक्षु योद्वयोः
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org