________________
आत्म
प्रबोधग्रन्थे ॥ २७ ॥
Jain Education Inter
तमानसेन सुबुद्धिना एकं रम्यं देवगृहं कारयित्वा रजोहरणमुखपोतिकापरिग्रहारिणी स्वपितुः प्रतिमा तत्र स्थापिता, सत्रशाला च तत्र प्रवर्त्तिता, सा च साधर्मिकस्थलीति शास्त्रे भण्यते । इति वारत्तककथानकं साधर्मिकचैत्योपरि दर्शितं । एतेन पंचधा चैत्यान्युक्तानि । अथैतेषु पंचसु भक्ति कृतादिचतुर्विधचैत्यानां कृत्रिमत्वेन न्यूनाधिक भाव संभवात्संख्यानियमो नास्ति, शाश्वतजिनचैत्यानां तु नित्यत्वात् स विद्यते । अतस्त्रिभुवनस्थितानां शाश्वतजिन संबंधिनां देवगृहाणां बिंबानां च संख्या 'कम्मभूमी' त्यादिचैत्यवंदनांतर्गतगाधानुसारेणाभिधीयते, तद्गाथे च इमे सत्ताणवइसहस्सा, लक्खा छप्पन्न अडकोडीओ । चउसय छावासीया, ति (ते) लुके चेइए वंदे ॥ १६ ॥ वंदे नवकोडिसयं, पण्वीसं कोडिलरूखतेवन्ना । अठ्ठावीस सहस्सा, चउसय अठ्ठासिया पडिमा ॥ १७ ॥ व्याख्या - अष्टौ ८ कोटयः, षट्पंचाश ५६ लक्षाणि, सप्तनवतिः ९७ सहस्राणि चत्वारि शतानि षडशीतिश्रेति, एतावति त्रैलोक्ये चैत्यानि संति, तान्यहं वंदे इत्यन्वयः ॥ १६ ॥ तथा पंचविंशति २५ कोट्यधिका नवशत ९०० कोट्यस्त्रिपंचाश ५३ लक्षाणि अष्टाविंशति २८ सहस्राणि चत्वारि ४ शतानि अष्टाशीति ८८ श्चेति एतावत्यः शाश्वत जिनचैत्यानां मध्ये प्रतिमाः संति ता अहं वंदे ॥ १७ ॥ इति गाथाद्वयार्थः अथ त्रिभुवने उक्तप्रमापनि शाश्वतजिन भवनविचानि यथा संति तथा दश्यते तत्राधोलोके दक्षिणोत्तर भागावस्थितेषु भवनपतीनां दशसु निकायेषु सर्वसंख्यया सप्त ७ कोट्यो द्वासप्तति ७२ लक्षाणि च भवनानि संति, प्रतिभवनं च एकैक चैत्य सद्भावेन अधोलोके चैत्यान्यपि सर्वाणि द्वासप्तति ७२ लक्षाधिकसप्त ७ कोटिप्रमितान्येव भवंति, तचेत्यांतर्गत
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं
॥२॥
www.jainelibrary.org