________________
च तस्मै भिक्षादानार्थ घृखंडमिश्रितक्षरेयीभृतं पात्रमुत्पाटितवती, अत्रांतरे च कथमपि तद्भाजनात् खंडमि-18
प्रथमः आत्म- श्रितो घृतबिंदुर्भूमौ पतितः, ततस्तं दृष्ट्वा स महात्मा धर्मघोषमुनिर्भगवदुपदिष्टभिक्षाग्रहणविधौ कृतोद्यमः सन् |
प्रकाशे प्रबोधग्रन्थे || छर्दितदोपदय इयं भिक्षा, तस्मान्मे न कल्पते, इति मनसि विचार्य भिक्षामगृहीत्वा गृहान्निर्जगाम । वारत्तक- BEसम्यक्त ॥२६॥ मंत्रिणा च मत्तवार गस्थितेन दृष्टो भगवान्निर्गच्छन्, चिंतितं च चित्ते कथमनेन मदीया भिक्षा न गृहीता? इत्येवं है | स्वरूपं
यावचिंतयति तावत्तस्य भूमौ निपतितस्य खंडयुक्तघृतविंदोरुपरि नक्षिकाः संमिलिताः, तासां च भक्षणाय ॥२६॥ प्रधाविता गृहगोधिका, तस्या वधाय प्रधावितः सरटस्तस्यापि च भक्षणाय प्रधावति स्म मार्जारी, तस्या अपि हननाय प्रधावितः प्रावूर्णकस्य श्वा, तस्यापि च प्रतिद्वंद्वी प्रधावितोऽन्यो गृहश्वानस्ततो द्वयोरपि तयोः शुनोरभूपरस्परं युद्धं । तदनंतरं निजनिज शुनकपराभवपीडनया च प्रधाविती मंत्रिप्राघूर्णकयोः सेवको, ततस्तस्योरपि । अन्योन्यमभूत लकुटालकुटि महायुद्ध, दृष्टं चैतत्सर्वमपि वारत्तकमंत्रिणा, ततस्तं युद्ध निवार्य चिंतितं च घृतादेविदुमात्रेऽपि भूमौ पतिते यत एवंविधाधिकरणप्रवृत्तिरभूत तत एवाधिकरणभीरुभगवान् भिक्षां न गृहीतवान् । अहो! सुदृष्टो भगवता धर्मः, को नाम भगवंतं वीतरागं विना एवंविधमपापं धर्ममुपदेष्टं समर्थों भवति? ततो ममापि स एव देवः सेव्यस्तदुक्तमेव चानुष्ठानं पालयितुमुचितमिति विचिंत्य, स मंत्री संसारसुखविमुखः |शुभध्यानोपगतः संजातजासिस्मरणो देवतार्पितसाधुवेषस्तत्कालमेव गृहं त्यक्त्वा अन्यत्र विहारं कृतवान् । क्रमेण दीर्घकालं संयममनुपाल्य, केवलज्ञानं प्राप्य वारत्तकार एव सिद्धिलक्ष्मी शिश्राय । ततस्तत्पुत्रेण स्नेहापूरि
6454643
Jon Education inte
For Private & Personal use only
owwjainelibrary.org