________________
आत्म
प्रबोधग्रन्थे, ॥ १९ ॥
Jain Education Interna
एतावता यो जीवो जिनेश्वरोक्तं धर्मास्तिकायादीनां गत्युपष्टंभकत्वादिस्वभावमंगप्रविष्टाद्यागमस्वरूपं वा सामायिकादिचारित्रधर्मं वा श्रद्दधाति स धर्मरुचिर्ज्ञातव्यः १० । अत्र हि पृथक् उपाधिभेदेन सम्यक्त्वभेदकथनं शिष्यव्युत्पादनार्थं, अन्यथा तु निसर्गोपदेशयोरधिगमादौ वा क्वचित्केषांचिदंतर्भावोऽस्त्येवेति । यच्चेह सम्यक्त्वस्थ जीवादभिन्नत्वेनाभिधानं तद् गुणगुणिनोः कथंचिदभेदज्ञापनार्थमित्युक्तं दशविधं सम्यक्त्वम् ॥ अथ सर्वेष्वपि धर्मकृत्येषु सम्यक्त्वस्यैव प्राधान्यं प्रदश्यते
सम्मत्तमेव मूलं, निद्दिहं जिणवरेहिं धम्मस्स । एगं पि धम्मकिचं, न तं बिना सोहए नियमा ॥ १२ ॥
स्पष्टार्था, इदमत्र तात्पर्य-अस्मिन्नपारसंसारे बहुतरभ्रमणेन खिन्नीभूतैर्भव्यात्मभिस्तावदुक्तस्वरूपविशुद्ध· सम्यक्त्वयुक्ता स्वात्मभूमिर्विधेया, यतो विशुद्धात्मभूमौ निहितं सत् सर्वमपि सद्धर्मकृत्यं प्रभासचित्रकर परिकर्मितभूमौ चित्रमिवासाधारणशोभां बिभर्ति, आत्मशुद्धिं विना तु किमपि सत्कृत्यं न शोभते । अतो भव्यस्तत्रैव यतितव्यमिति पूर्वसूचितप्रभासचित्रकृदृदृष्टांतस्त्वेवं-अस्मिन् जंबूद्वीपे भरतक्षेत्रमध्यगतं बहुलरुचिरधवलगृहसुंदरं जिनमंदिरश्रेणिविभ्राजितं विविधनागपुन्नागादिपादपोपेतप्रचुरतरोपवनविराजितं साकेतं नाम नगरमासीत् । तत्र निखिलरिपुवृक्षोन्मूलने महाबलसदृशो महाबलो नाम राजा विरराज । अथैकदा आस्थान मंडपोपविष्टः स भूपतिर्विविधदेशदर्शक स्वदूतं प्रतीत्थं पप्रच्छ-'भो मम राज्ये राजलीलोचितं किमपि वस्तु न ह्यस्ति ? । ' तदा स प्राह- 'स्वामिन्! भवद्राज्येऽन्यत्सर्वमप्यस्ति परमेका नयनमनोहारिविचित्रचित्रालंकृता राजलीलोचिता चित्र
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं
॥ १९ ॥
www.jainelibrary.org