________________
आत्म
प्रोग्रन्थे ॥ १८ ॥
Jain Education Interna
सूरिपदं प्राप्त इतीत्थं सूत्ररुचिज्ञेयः ४ । अथ बीजरुचिरुच्यते - बीजमिव बीजं यदेकमपि अनेकार्थबोधोत्पादकं वचनं तेन रुचिर्यस्य सः, यथा हि बीजं क्रमेणानेकबीजानां जनकं भवति, एवमात्मनोऽपि एकपदविषयिणी रुचिरनेकपदविषयिरुच्यं तराणामुत्पादिका भवति, एवंविधरुचिमानात्मा बीजरुचिरुच्यते । अथवा जले तैलबिंदुवत्, यथा जलैकदेशगतोऽपि तैल बिंदुः समस्तं जलमाक्रामति, तथा तस्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षायोपशमवशादशेषेषु तत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिर्ज्ञातव्यः ५ । अथाभिगमरुचिरुच्यते-अभिगमो विशिष्टपरिज्ञानं तेन रुचिर्यस्य सः, एतावता येन श्रुतज्ञानमर्थमाश्रित्य विज्ञातं भवति सोऽभिगमरुचिर्बोध्यः, श्रुतज्ञानं हि आचारावंगानि औपपातिकाद्युपांगानि उत्तराध्ययनादिप्रकीर्णकानीति ६ । अथ विस्ताररुचिरुच्यते विस्तारः सकलद्वादशांगानां नयैः पर्यालोचनं तेन परिवृद्धा रुचिर्यस्य सः, अयमर्थः येन किल षण्णां द्रव्याणां सर्व पर्यायाः सर्वैः प्रत्यक्षादिप्रमाणे सर्वैश्च नैगमादिनयप्रकारैर्यथातथं विज्ञाताः संति स विस्ताररुचिज्ञेयः ७ । अथ क्रियारुचिरुच्यते - क्रिया सम्यक् संयमानुष्ठानं तत्र रुचिर्यस्य सः, एतावता यस्य भावतो ज्ञानदर्शनचारित्राचाराद्यनुष्ठाने रुचिरस्ति स क्रियारुचिबद्धव्यः ८ । अथ संक्षेपरुचिरुच्यते - संक्षेप : संकोचस्तत्र रुचिर्यस्य सः, वि. स्तारार्थापरिज्ञानादिति हेतोः, अयं भावः- यो हि जिनप्रणीतप्रवचनेषु अकुशलः सौगतादिकुदर्शनानामनभिलाषी च सन् संक्षेपेणैव चिलातीपुत्रवदुपशमविवेक संवराभिधपदत्रयेण तत्त्वरुचिमवाप्नोति स संक्षेपरुचिर्बोध्यः । अत्र चिलातीपुत्रवृत्तांतस्तु प्रसिद्ध एव ९ । अथ धर्मरुचिरुच्यते - धर्मे अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य सः,
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं ॥ १८ ॥
ww.jainelibrary.org