SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति स निसर्गरुचिर्बोध्यः १ । अथोपदेशरुचिः मोच्यते-उपदेशो दी आत्म . गुर्वादिभिर्वस्तुतत्त्वकथनं तेन रुचिर्यस्य सः, एतावता अनंतरोक्तानेव जीवादिपदार्थान् छद्मस्थस्य तीर्थकृदादेर्वा । प्रथमः प्रबोधग्रन्थे उपदेशेन यः श्रद्दधाति स उपदेशरुचिर्बोध्यः२। अथाज्ञारुचिरुच्यते-आज्ञा सर्वज्ञवचनात्मिका तस्यां रुचिर्यस्य प्रकाशे ॥१७॥दसोऽयमर्थः-यो भव्यो देशतो रागद्वेषमोहाज्ञानविवर्जितः सन् केवलया तीर्थकराद्याज्ञया एव प्रवचनोक्तमर्थजातं सम्यक्त्व तथेति प्रतिपद्यते, न तु स्वयं बुद्धिहीनत्वात् तथाविधमवबुध्यति स मासतुसादिवत् आज्ञारुचिर्बोध्या, मासतुस स्वरूप ॥१७॥ ॐ वृत्तांतस्त्वेवं-एकः कश्चिद गृहस्थो गुरोः पा धर्म श्रुत्वा प्रतिबुध्य च दीक्षां जग्राह । परं तथाविधतीव्रतरज्ञा-13 नावरणीयकर्मोदयाद्गुरुभिर्यहुधा पाठ्यमानोऽपि एकं पदमात्रमपि धारयितुमुच्चारयितुं च न शक्तोऽभूत । ततोला | गुरुभिरुक्तं-मृतमनेन शास्त्राध्ययनेन, त्वं केवलं ‘मा रूस मा तूस' इत्येवाधीष्व । अथ स मुनिर्बुद्धिहीनत्वात् तद्वाक्यमपि अध्येतुमशक्तः सन् तस्य स्थाने 'मासतुसेति' पठन केवलां गुर्वाज्ञामेव प्रमाणीकुर्वन् आत्मनिंदांच कुर्वन् सद्भावनया घनघातीकर्मचतुष्टयक्षयं विधाय सद्यः केवलज्ञाश्रियं शिश्राय । अयं चाज्ञारुचिर्जातव्यः।३ अथ सूत्ररुचिः प्रोच्यते-सूत्रमंगोपांगादि आचारादिलक्षणं, तेन रुचिर्यस्य सः, अयं भावः-यः सिद्धांताध्ययनं कुर्वन् तेनाधीयमानेनैव सिद्धांतेन सम्यक्त्वं प्रामोति, प्रसन्नप्रसन्नतराध्यवसायश्च भवति स गोविंदवाचकवत्सू रुचिर्योध्यः, यथा कश्चिद्गोविंदनामा शाक्यमतभक्तो जिनागमरहस्यग्रहणार्थ कपटेन यतीभूत्वा आचार्याणां पा सिद्धांताध्ययनं कुर्वाणस्तेनैवाधीयमान सूत्रेण परिगामविशुद्धिप्रादुर्भावात् सम्यक्त्वं प्राप्य शुद्धसाधुर्भूत्वा in Eduarantee For Private & Personal use only jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy