SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१६॥ व्याख्या-त्रयाणां भावभ्रत १ सम्यक्त्व २ देशविरति ३ नाम्नां सामायिकानामेकभवे सहस्रपृथक्त्वमाभाकर्षा भवंति, द्विप्रभृतिरा नवभ्यः पृथक्त्वमुच्यते । तथा सर्वविरतेराकर्षा एकभवे शतपृथक्त्वं भवति, उत्कर्षत जात्मप्रबोधगया एतावंत आकर्षा भवंति, जघन्यतस्तु एक एवेति ॥ अथ संसारे स्थितस्य जीवस्य सर्वभवेषु कियंत आकर्षा ॥१६॥ स्युरित्युच्यते तिण्हं सहसमसंखा, सहसपुहुत्तं च होइ विरईए । नाणाभवआगरिसा, एवतिआ हुंति नायव्वा ॥११॥ व्याख्या-नानाभवेषु एकजीवस्य त्रयाणां भावश्रुतादीनामाकर्षा असंख्याताः सहस्रपृथक्त्वं उत्कृष्टा भवंति। तथा सर्वविरतेराकर्षा उत्कृष्टाः सहस्रपृथक्त्वं भवंति, द्रव्यश्रुतस्य तु आकर्षा अनंताः स्युः, द्वींद्रियादिमिथ्यात्विनामपि तत्सद्भावात् ५। इत्युक्तं पंचविधं सम्यक्त्वं ॥ ____ अथास्य दशविधत्वं निरूप्यते-एतदनंतरोक्तमौपशमिकादि पंचविधं सम्यक्त्वं प्रत्येक निसर्गतोऽधिगमतश्च जायमान त्वाद्दशविधं भवति, अथवा प्रज्ञापनाद्यागमोक्तनिसर्गरुच्यादिभेदैर्दशविध सम्यक्त्वं भवति । तद्यथानिसर्गरुचिः १ उपदेशरुचिः २ आज्ञारुचिः ३ सूत्ररुचिः ४ बीजरुचिः ५ अभिगमरुचिः ६ विस्ताररुचिः ७ क्रिया रुचिः ८ संक्षेपरुचिः ९ धर्मरुचिः १० इति । तत्र निसर्गरुचेः स्वरूपमुच्यते-निसर्गः स्वभावस्तेन जिनोक्ततत्त्वेषु & रुचिर्यस्य स निसर्गरुचिः । अयमर्थः-जिनदृष्टं यज्जीवादिस्वरूपं तदेवमेवास्ति नान्यथा, इत्येवं यस्तीर्थकरोपदिPष्टान् द्रव्यक्षेत्रकालभावभेदती नामस्थापनाद्रव्यभावभेदतो वा चतुर्विधान् जीवादिपदार्थान् परोपदेशं विना ॐॐॐॐॐॐॐॐॐॐ an Educaanneme For Private & Personal Use Only Thiwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy