SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे ॥१५॥ प्रकाशे स्वरूपं नापेक्षया, अथवा बादशे देवलोके द्वाविंशति (२२) सागरस्थितौ वारत्रयगमनापेक्षया ज्ञेया, साधिकत्वं तु नरः भवायुःप्रक्षेपादिति। इयं हि उत्कृष्टा स्थितिरुक्ता, जघन्यतस्तु आद्यानां त्रयाणामेककसमयस्थितिः, अंत्ययोस्तु । प्रथमः द्वयोः प्रत्येकमंतर्मुहूर्त्तस्थितिरिति ॥ अथैतेषु कतमत् सम्यक्त्वं कतिवारं प्राप्यते ? इति दयतेउकोसं सासायण, उवसमिया हुति पंचवाराओ। वेयगखयगा इक्कसि, असंखवारा खओवसमो ॥८॥ सम्यक्त्व व्याख्या-उत्कर्षत आसंसारं सास्वादनौपशमिकसम्यक्त्वे पंचवारं भवतः, तत्रैकवारं तु प्रथमसम्यक्त्वलाभे, वारचतुष्टयं चोपशमश्रेण्यपेक्षमिति । तथा वेदकं क्षायिकं चैकशः एकवारमेव भवत इत्यर्थः, क्षायोपश- ॥ १५॥ मिकं तु बहुभवापेक्षया असंख्यावारं लभ्यते इति ॥ अथ कस्मिन् गुणस्थानके किं सम्यक्त्वं स्यादिति निरूप्यते बीयगुणे सासाणो, तुरियाइसु अडिगारचउचउसु । उवसमखायगवेयग-खाओवसमा कमा हुति ॥९॥ व्याख्या-मिथ्यात्वाद्ययोग्यतानि चतुर्दशगुणस्थानानि संति, तेषु द्वितीयगुणे सास्वादनसम्यक्त्वं भवति, तथा तुर्यादिष्विति चतुर्थादिषु अष्टसु अविरतायुपशांतमोहांतेषु गुणस्थानेषु औपशमिकं सम्यक्त्वं भवति, तथा चतुर्थादिषु एकादशसु अयोग्यंतेषु गुणेषु क्षायिकं भवति । तथा पुनश्चतुर्थादिषु चतुष्षु अप्रमत्तांतेषु गुणेषु वेदक भवति । तेष्वेव च चतुष्षु क्षायोपशमिकं सम्यक्त्वं भवतीति ॥ अथ प्रथमतया मुक्तस्य वा सम्यक्त्वादेर्ग्रहणमाकर्ष उच्यते, ते च एकजीवस्य एकस्मिन् भवे कियंतो भवतीत्यभिधीयते तिहिं सहसपुहत्तं, सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा, एवहआ हंति नायब्वा ॥१०॥ ७ Jain Education Inter For Private & Personal use only w ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy