SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आत्म- प्रबोधग्रन्थे ॥१४॥ च्छाभ्रपटलं दृष्टेरिव यथावस्थिततत्त्वरुचेराच्छादकं न भवत्यत उपचारतः सम्यक्त्वमुच्यते । ननु औपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेषः ? उभयत्रापि अविशेषेण उदितं मिथ्यात्वं क्षीणं अनुदितं तुझी प्रथमः प्रकाश उपशांतमिति । अत्रोच्यते-अस्ति विशेषः, क्षायोपशमिके हि मिथ्यात्वस्य विपाकानुभवो नास्ति, परं भस्म-18 सम्यक्त्व च्छन्नवह्निसंबंधिधूमरेखावत् प्रदेशानुभवोऽस्त्येव, औपशमिके तु विपाकतः प्रदेशतश्च सर्वथा मिथ्यात्वस्यानु स्वरूप भवो नास्त्येवेति ३ । तथा पूर्वोक्तीपशमिकसम्यक्त्ववमनसमये तदास्वादस्वरूपं सास्वादनसम्यक्त्वं भवति, ॥१४॥ औपशमिकात्पतन् सन् यावदद्यापि मिथ्यात्वं न प्राप्तस्तावत्सास्वादन इति ४ । तथा पुनः क्षपकणि प्रतिपन्नस्य चतुर्षु अनंतानुबंधिषु मिथ्यात्वमिश्रपुंजद्वये च क्षपितेषु सत्सु क्षप्यमाणे च क्षायोपशमिकलक्षणे शुद्धपुंजे तत्सं. बंधिचरमपुदगलक्षपणोद्यतस्य तचरमपुद्गलवेदनस्वरूपं यत्सम्यक्त्वं तद्वेदकमुच्यते। वेदकप्राप्त्यनंतरसमये च अवश्यमेव क्षायिकसम्यक्त्वप्राप्तिर्भवतीति ॥ अथ पंचानामपि सम्यक्त्वानां कालनियम उच्यतेअंतमुहुत्तोवसमो, छावली सासाण वेअगो समओ। साहियतित्तीसायर-खइओ दुगुणो खओवसमो ॥७॥ IR व्याख्या-औपशमिकस्य तावदुत्कर्षतोऽतर्मुहर्त्तप्रमाणा स्थितिः, सास्वादनस्य षडावलिका स्थितिः, वेदकस्य तु एकः समयः स्थितिः, क्षायिकस्य पुनः संसारमाश्रित्य साधिकत्रयस्त्रिंशत्सागरोपमाणि स्थितिः, सा च सर्वार्थसिद्धाद्यपेक्षया द्रष्टव्या, सिद्धावस्थापेक्षया तु साद्यनंतैव स्थितिः, क्षायोपशमिकस्य तु क्षायिकतो द्विगुणा स्थितिः, साधिकषट्षष्टि (६६) सागरोपमाणीत्यर्थः, इयं च विजयाद्यनुत्तरेषु त्रयस्त्रिंशत्सागरस्थितौ वारद्वयगम 45CAS Jain Education Internet For Private & Personal use only Kiww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy