SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे ॥१३॥ Jain Education Interna ष्टिरभव्यो दूर भव्यो वा कञ्चिदंगारमर्दकादिवत् धर्मकथादिभिर्जिनोक्तजीवाजीवादिपदार्थान् यथावस्थितान् परस्य दीपयति प्रकाशयति यस्मात् तस्मात्तत्सम्यक्त्वं दीपकं उच्यते । ननु यः स्वयं मिथ्यादृष्टिस्तस्य सम्यक्त्वमिति कथमुच्यते वचनविरोधात् ? इति चेन्मैवं, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपतॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारात्सम्यक्त्वमित्युच्यते, यथायुर्धृतमित्यदोषः । तथा औपशमिक १ | क्षायिक २ क्षायोपशमिक ३ भेदादपि त्रिविधं सम्यक्त्वम् ॥ तथा औपशमिक १ क्षायिक २ क्षायोपशमिक ३ सास्वादन ४ भेदाच्चतुर्विधं सम्यक्त्वम् । तथा पुनः औपशमिक १ क्षायिक २ क्षायोपशमिक ३ सास्वादन ४ वेदक ५ भेदात्पंचविधं सम्यक्त्वं, एषामर्थस्त्वयं- उदीर्णे मिथ्यात्वेऽनुभवतः क्षयं नीते सति, अनुदीर्णे च परिणामविशुद्धिविशेषेण सर्वथा उपशमं नीते सति यद्गुणः प्रादुर्भवति तदौपशमिकं सम्यक्त्वं उच्यते, इदं च अनादिमिथ्यादृष्टेर्ग्रन्थिभेदकर्त्तुस्तथा उपशमश्रेणिप्रारंभकस्य जंतोर्भवति १ । तथानंतानुबंधिकषायचतुष्टयक्षयानंतरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा क्षीणे सति यद्गुणः सम्पद्यते तत्क्षायिकं सम्यक्त्वमुच्यते, एतच्च क्षपकश्रेणिप्रतिपत्तुर्जीवस्य भवति । तथा पुनर्यदुदयमागतं मिथ्यात्वं तद्विपाको - दयेन वेदितत्वात् क्षीणं यच्च शेषं सत्तायामनुदयगतं वर्त्तते तदुपशांतं, उपशांतं नाम मिथ्यात्वमिश्रपुंजौ आश्रित्य निरुद्धोदयं, शुद्धपुंजमाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन निष्पन्नं येत्सम्यक्त्वं तत्क्षायोपशमिकमुच्यते, इदं हि शुद्धपुंजलक्षणं मिथ्यात्वमपि अतिस्व For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy