SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आत्मप्रबोधग्रन्थे ॥१३॥ Jain Education Interna ष्टिरभव्यो दूर भव्यो वा कञ्चिदंगारमर्दकादिवत् धर्मकथादिभिर्जिनोक्तजीवाजीवादिपदार्थान् यथावस्थितान् परस्य दीपयति प्रकाशयति यस्मात् तस्मात्तत्सम्यक्त्वं दीपकं उच्यते । ननु यः स्वयं मिथ्यादृष्टिस्तस्य सम्यक्त्वमिति कथमुच्यते वचनविरोधात् ? इति चेन्मैवं, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपतॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारात्सम्यक्त्वमित्युच्यते, यथायुर्धृतमित्यदोषः । तथा औपशमिक १ | क्षायिक २ क्षायोपशमिक ३ भेदादपि त्रिविधं सम्यक्त्वम् ॥ तथा औपशमिक १ क्षायिक २ क्षायोपशमिक ३ सास्वादन ४ भेदाच्चतुर्विधं सम्यक्त्वम् । तथा पुनः औपशमिक १ क्षायिक २ क्षायोपशमिक ३ सास्वादन ४ वेदक ५ भेदात्पंचविधं सम्यक्त्वं, एषामर्थस्त्वयं- उदीर्णे मिथ्यात्वेऽनुभवतः क्षयं नीते सति, अनुदीर्णे च परिणामविशुद्धिविशेषेण सर्वथा उपशमं नीते सति यद्गुणः प्रादुर्भवति तदौपशमिकं सम्यक्त्वं उच्यते, इदं च अनादिमिथ्यादृष्टेर्ग्रन्थिभेदकर्त्तुस्तथा उपशमश्रेणिप्रारंभकस्य जंतोर्भवति १ । तथानंतानुबंधिकषायचतुष्टयक्षयानंतरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीयकर्मणि सर्वथा क्षीणे सति यद्गुणः सम्पद्यते तत्क्षायिकं सम्यक्त्वमुच्यते, एतच्च क्षपकश्रेणिप्रतिपत्तुर्जीवस्य भवति । तथा पुनर्यदुदयमागतं मिथ्यात्वं तद्विपाको - दयेन वेदितत्वात् क्षीणं यच्च शेषं सत्तायामनुदयगतं वर्त्तते तदुपशांतं, उपशांतं नाम मिथ्यात्वमिश्रपुंजौ आश्रित्य निरुद्धोदयं, शुद्धपुंजमाश्रित्य पुनरपनीतमिथ्यास्वभावमित्यर्थः, तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन निष्पन्नं येत्सम्यक्त्वं तत्क्षायोपशमिकमुच्यते, इदं हि शुद्धपुंजलक्षणं मिथ्यात्वमपि अतिस्व For Private & Personal Use Only प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥१३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy