________________
आत्म
भेदतोऽपि द्विविधं सम्यक्त्वं, तत्रापनीतमिथ्यास्व भावसम्यक्त्व पुंजगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौनलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्व पुंजपुद्गल नां क्षयात् उपशमाच्च समुत्पन्नं केवलजीव परिणामरूपं क्षायिप्रबोधग्रन्थे कमौपशनिकं वा अपौगलिक; तथा निसर्गाधिगमाभ्यामपि सम्यक्त्वं द्विधा, तत्र तीर्थकरायुपदेशमंतरेण ॥ १२ ॥ ४ स्वभावत एव जंतोर्यत्कर्मोपशमादिभ्यो जायते तन्निसर्गसम्यक्त्वं, यत्पुनस्तीर्थकरायुपदेश जिनप्रतिमादर्शनादिबाह्यनिमित्तोपष्टंभतः कर्मोपशमादिना प्रादुर्भवति तदधिगमसम्यक्त्वमिति. अत्र मार्गज्वरदृष्टांतौ प्रस्तुतौ. तद्यथा-एकः पथो भ्रष्ट उपदेशं विना भ्रमन् स्वयमेव पंथानमाप्नोति, कश्चिच्च परोपदेशेन; ज्वरोऽपि कश्चित् स्वयमेव याति, कश्चित्तु भेषजोपायेन, एवं प्राणिनां सम्यक्त्वमार्गप्राप्तिर्मिथ्यात्वज्वरापगमश्च निसर्गोपदेशाभ्यां भाव्यः, आधास्य त्रैविध्यं दश्यते
कारक १ रोचक २ दीपक ३ भेदतस्त्रिविधं सम्यक्त्वं, तत्र जीवानां सम्यगनुष्टानप्रवृत्तिं कारयतीति कारकं, एतावता यस्मिन् परमविशुद्धिरूपे सम्यक्त्वे प्रादुर्भूते सति जीवो यदनुष्ठानं गथा सूत्रे भणितं तत्तथैव करोति तत्कारकसम्यक्त्वं, एतच्च विशुद्धचारित्रिणामेव दृष्टव्यं तथा श्रद्धानमात्रं रोचकसम्यक्त्वं एतावता यत्सम्यगनुष्ठानप्रवृत्तिं रोचयत्येव केवलं. न पुनः कारयति तद्रोचकं, इदं चाविरतसम्यग्दृशां कृष्णश्रेणिकादीनां बोध्यं तथा यः स्वयं मिथ्यादृष्टिरभव्यो दूरभव्यो वा कश्चिदंगारमर्दकादिवत् धर्मकथादिभिर्जिनोक्तजीवाजीवादिपदार्थान् | यथावस्थितान् परस्य दीपयति प्रकाशयति यस्मात् तस्मात्तत्सम्यक्त्वं दीपकं उच्यते; ननु यः स्वयं मिथ्याह
Jain Education Interna
For Private & Personal Use Only
प्रथमः
प्रकाशे सम्यक्त्व स्वरूपं
॥ १२ ॥
www.jainelibrary.org