________________
तृतीय
अतिशयेन तद्वेषणं चकार । तत एकदा केनचिवृद्धनरेण तस्मै उक्तं-'भो भद्र ! इहैका मणीनां खनिरस्ति, IST जिनलाभ-तस्यां पुण्यवता नरेण चिंतामणिः प्राप्यते । ततो जयदेवस्तद्वचसा तत्र गत्वा चिंतामणिमन्वेषयामास, तदा परि तकस्य मंदबुद्धेः पशुपालस्य हस्ततले बत्तुलमुपलं हष्ट्रातं शास्त्रोक्तलक्षणचितामणि विज्ञाय स तं ययाचे । तदा
प्रकारे विरचिते
सर्वविरति बास्म
पशुपालेनोक्तं-तवानेन किं कार्य ?'। वणिक प्राह-'अहं स्वगृहं गतः सन् पालेभ्यः क्रीडाथै दास्यामि। प्रबोधग्रन्थे | सोऽवादीत्-'अत्रेहशा बहवः संति, त्वं स्वयमेव किं न गृह्णासि ?'। वणिक् प्राह-'अहं स्वगृहगमने समुत्सुको
ऽस्मि, तस्मादेतं मह्यं देहि, त्वं पुनरिह प्रदेशेऽन्यमपि लप्स्यसे । एवमुक्तोऽपि सोऽपरोपकारशीलत्वेन तस्मै न ददो, ततो जयदेवेनोपकारबुद्ध्या तस्मै प्रोक्तं-'हे भद्र! यदि त्वं मम न दत्से ततः स्वयमेवैनं चिंतामणिमाराधय, येनासौ तुभ्यमपि वांछितं दद्यात् ।पशुपालः प्राह-'यथेष सत्यं चिंतामणिरस्ति तर्हि मया चिंतितं| बहुलं बदरीफलकच्चुरादिकं शीघ्रं ददातु।तत ईषद्विहस्य जयदेवः प्रोचे-'अहो!! एवं न चिंत्यते, किंतूपवासत्रिकं कृत्वा संध्यायामेनं मणि शुद्धजलेन लपयित्या शुद्धभूमावुच्चैःप्रदेशे स्थापयित्वा चंदनकर्पूरकुसुमादिभिः । पूजयित्वा नत्वा च पश्चादस्य पुरो यदिष्टं चिंत्यते तत्सर्वमपि प्रातर्लभ्यते' । इति श्रुत्वा स पशुपालः स्वकीयछगलिकावर्ग वालयित्वा प्रामाभिमुखं चलितः। ततो निश्चितं हीनपुण्यस्यास्य हस्ते इदं मणिरत्नं न स्थास्यतीति विचिंत्य जयदेवोभपि तव पृष्ठि न तत्याज । अथ पशुपालो मार्गे गच्छन् प्राह--'हे मणे! अधुना इमाः छागिका विक्रीय घनसारादिकमानीय तव पूजां करिष्यामि, त्वयाऽपि मचिंतितार्थपूर्ती उद्यमः कार्यः, पुनश्च हे मणे ! अद्यापि
45454555544
Jain Education Inter
For Private & Personal use only
5
ww.jainelibrary.org