________________
बिनलाभवरि विरचिते
आत्म
प्रबोधग्रन्थे
॥३१२ ।।
Jain Education Inter
जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि ॥ १२३ ॥ व्याख्या- तुच्छविभवानां - पशुपालवत्स्वल्पपुण्यानां जीवानां यथा चिंतामणिरत्नं सुलभं सुप्रापं न भवति तथा सम्यक्त्वादिगुणविभववर्जितानामपि जीवानां धर्मरत्नं सुलभं न भवेत्, ये तु जयदेवकुमारवदतुल्यपुण्यगुणभृतः स्युस्ते मणिखानितुल्यायां मनुजगतौ चिंतामणितुल्यममुं सद्धर्मं लभते इति भावार्थः ।
इह पशुपालजयदेवयोर्दृष्टांत स्स्वेवं
हस्तिनापुरे नगरे नागदेवनामा श्रेष्ठी, तस्य वसुंधरा भार्याकुक्षिसंभूतो जयदेवनामा पुत्र आसीत्, सच द्वादश वर्षाणि यावद्रत्नपरीक्षाऽभ्यासं कृतवान् । ततः स शास्त्रोक्त्यनुसारेण चिंतामणिं महाप्रभावमवबुद्धय शेषमणीनुपलतुल्यान् गणयन् तस्यैवोपार्जनाथ सकलेऽपि पुरे प्रतिहहं प्रतिगृहं च भ्रमणं चकार, परं कापि तं न लेभे । ततः स खिन्नः सन् स्वपितरौ प्रत्युवाच -- 'मम चित्तं चिंतामणौ लग्नमस्ति, इह तु स न लभ्यतेऽतोऽहं तदर्थमन्यत्र यामि' । तदा तौ प्रोचतुः- 'हे वत्स ! एषा खलु कल्पनैवास्ति, न पुनरन्यत्रापि कुत्रचिदयं परमार्थतो विद्यते, तस्मात्त्वं यथेष्टमन्यै रत्नैर्व्यवहरस्व ' । तत एवं बहुधोक्तोऽपि जयदेवश्चितामणिप्राप्तौ कृतनिश्चयः सन् हस्तिनापुरान्निर्गत्य बहुनगनगर ग्रामाकरकर्बटपत्तन समुद्रतीरेषु तमन्वेषयन् सुचिरं भ्रांतः परं कापि तमलभमानो विमनस्कीभूय स्वमनसि चिंतयामास - 'किमिदं सत्यं नास्त्येव, यत्क्वापि न दृश्यते' अथवा शास्त्रोक्तं तस्य मणेरस्तित्वमन्यथा न भवेत्, अतः क्वापि भविष्यति ' । इति निश्चित्य स पुनरपि बहुमणिस्वनीर्विलोकयन्
For Private & Personal Use Only
तृतीय
प्रकाशे
सर्वविरति
स्वरूपं
॥३१२॥
www.jainelibrary.org