SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ बिनलाभवरि विरचिते आत्म प्रबोधग्रन्थे ॥३१२ ।। Jain Education Inter जह चिंतामणिरयणं, सुलहं न हु होइ तुच्छविहवाणं । गुणविहववज्जियाणं, जियाण तह धम्मरयणं पि ॥ १२३ ॥ व्याख्या- तुच्छविभवानां - पशुपालवत्स्वल्पपुण्यानां जीवानां यथा चिंतामणिरत्नं सुलभं सुप्रापं न भवति तथा सम्यक्त्वादिगुणविभववर्जितानामपि जीवानां धर्मरत्नं सुलभं न भवेत्, ये तु जयदेवकुमारवदतुल्यपुण्यगुणभृतः स्युस्ते मणिखानितुल्यायां मनुजगतौ चिंतामणितुल्यममुं सद्धर्मं लभते इति भावार्थः । इह पशुपालजयदेवयोर्दृष्टांत स्स्वेवं हस्तिनापुरे नगरे नागदेवनामा श्रेष्ठी, तस्य वसुंधरा भार्याकुक्षिसंभूतो जयदेवनामा पुत्र आसीत्, सच द्वादश वर्षाणि यावद्रत्नपरीक्षाऽभ्यासं कृतवान् । ततः स शास्त्रोक्त्यनुसारेण चिंतामणिं महाप्रभावमवबुद्धय शेषमणीनुपलतुल्यान् गणयन् तस्यैवोपार्जनाथ सकलेऽपि पुरे प्रतिहहं प्रतिगृहं च भ्रमणं चकार, परं कापि तं न लेभे । ततः स खिन्नः सन् स्वपितरौ प्रत्युवाच -- 'मम चित्तं चिंतामणौ लग्नमस्ति, इह तु स न लभ्यतेऽतोऽहं तदर्थमन्यत्र यामि' । तदा तौ प्रोचतुः- 'हे वत्स ! एषा खलु कल्पनैवास्ति, न पुनरन्यत्रापि कुत्रचिदयं परमार्थतो विद्यते, तस्मात्त्वं यथेष्टमन्यै रत्नैर्व्यवहरस्व ' । तत एवं बहुधोक्तोऽपि जयदेवश्चितामणिप्राप्तौ कृतनिश्चयः सन् हस्तिनापुरान्निर्गत्य बहुनगनगर ग्रामाकरकर्बटपत्तन समुद्रतीरेषु तमन्वेषयन् सुचिरं भ्रांतः परं कापि तमलभमानो विमनस्कीभूय स्वमनसि चिंतयामास - 'किमिदं सत्यं नास्त्येव, यत्क्वापि न दृश्यते' अथवा शास्त्रोक्तं तस्य मणेरस्तित्वमन्यथा न भवेत्, अतः क्वापि भविष्यति ' । इति निश्चित्य स पुनरपि बहुमणिस्वनीर्विलोकयन् For Private & Personal Use Only तृतीय प्रकाशे सर्वविरति स्वरूपं ॥३१२॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy