SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ तृतीय प्रकाशे सर्वविरति ॥३०॥ है सप्तसु या यावत्परिमाणा प्रतिमा तस्यास्तत्परिमाणमेव परिकर्म । तथा वर्षासु नैताः प्रतिपयंते, न च परिकर्म जिनलाम-2 करोति । तथा आये द्वे एकत्रैव वर्षे भवता, तृतीया चतुर्थी च एकैकस्मिन् वर्षे, अन्यासां तु तिमृणामन्यत्र वर्षे परि परिकर्म अन्यत्र च वर्षे प्रतिपत्तिः। तदेवं नवभिर्वराद्याः सप्त समाप्यते। ततोऽष्टम्यादयस्तु तिम्रोऽपि विरचिते प्रतिमा एकविंशत्या दिवसः पारं यांति, एकादशी च दिनत्रयेण संपद्यतेऽहोरात्रस्यांते षष्ठभक्तकरणात, द्वादशी पुनः प्रतिमा रात्रेरनंतरमष्टमकरणाचतूरात्रिंदिवमाना भवतीति। अत्रान्यदपि बहु वक्तव्यमस्ति तत्तु प्रवचनसा॥३०॥ रोद्धारादेरवगंतव्यं । इत्युक्तं संक्षेपतो द्वादशमुनिप्रतिमास्वरूपं ॥ अथ लेशत एवाहोरात्रकृत्यं सूच्यतेशुद्धाचारः साधुः, श्रीजिनवचनानुसारतो नित्यं । कुर्यात्क्रमेण सम्यक, स्वस्याहोरात्रकृत्यानि ॥ १२० ॥ स्पष्टार्था, नवरं कृत्यक्रमश्चायं-साधुर्निशायाश्चरमे प्रहरे मंदस्वरेण तथा सूत्रार्थपरावर्तनादिरूपं स्वाध्याय | करोति यथाऽसंयता न जाग्रति, तदनंतरं तस्यैव प्रहरस्य चतुर्थांशे सावशेषे सति षड्विधमावश्यकं समाचरति, तत उत्कटिकः सन् शरीरपरिभोग्यानां मुखपोतिकाद्युपकरणानां यथाविधि प्रतिलेखनां करोति, प्रतिलेखनासमाप्तिसमकालं चोदते सूर्ये वसति प्रमार्जयति । ततो वंदनापूर्वकमाचार्यादिकमापृच्छच तदाज्ञया वैयावृत्य स्वाध्यायं वा करोति, न पुनः स्वबुद्धया किंचित्कुर्यात् । यदुक्तं-उमदसमदुबा-लसेहिं मासद्धमासखमणेहिं । अकरंता गुरुवयणं, अणंतसंसारिआ भणिआ॥१॥ ततश्च किंचिदूनपौरुष्यामुपविष्टः सन् मुखपोतिकां प्रत्युपेक्ष्य BASAHESHKOSHASNEARE + + Jain Education Intema For Private & Personal use only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy