________________
बिनलाभ
विरचिते
आत्मप्रबोधान्ये ॥३०८॥
हतीय प्रकावे सर्वविरति खम ॥३०८
CSCAR
प्रतिमा, ततः प्रथमाद्वितीयातृतीयाशब्दरुपात्ता । अष्टमी नवमी दशमी च प्रतिमा एकैका सप्तरात्रिंदिवप्रमाणा, तत एकादशी अहोरात्रिकी प्रतिमा, द्वादशी चैकरात्रिकी एव, इत्येवं भिक्षुप्रतिमानां-साधुप्रतिज्ञाविशेषाणां द्वादशकं भवतीति । तत्र मासिक्या प्रतिमायामन्नस्य पानस्य च प्रत्येकमेकैकैव अव्यवच्छिन्नदानरूपा दत्तिर्भ| वेत्, द्वैमासिक्यां दत्तिद्वयं, त्रैमासिक्यां दत्तित्रयं, एवं यावत्सप्तमासिक्यां भक्तस्य पानस्य च सप्त सप्त दत्तयः
स्युः। ततः सप्तरात्रिदिनप्रमाणायामष्टम्यां प्रतिमायामपानकेनैकांतरोपवासेनासितव्यं, पारणके चाचाम्लं कर्तव्यं, | दत्तनियमस्तु नास्ति । तथा ग्रामादिभ्यो बहिरू मुखशयनाद्यासनेव स्थित्वा घोरोपसर्गाः सोढव्याः। ततो नवम्यामपि इदमेवानुष्ठानं, नवरं उत्कटिकत्वाद्यासनेन स्थातव्यं । दशम्यपीदृश्येव, नवरं तस्यां गोदोहिकाद्यासनेन स्थातव्यं । तत एकादश्यपि उक्तस्वरूपैव, केवलं तस्यामपानकं षष्ठभक्तप्रत्याख्यानं कार्य तथा प्रलंबभुज. त्वेन स्थातव्यं । ततो द्वादश्यामपि इदमेव विधानं, नवरमपानकमुपवासत्रयं कार्य, तथा निनिमेषनेत्रतया एकपुद्गलगतष्टितया लम्बितवाहुतया च स्थातव्यं । एतासां प्रतिपत्ता हि बज्रर्षभनाराच-ऋषभनाराच-नाराचअर्धनाराचादेरन्यतमसंहननयुक्तो भवति । तथा जघन्यतो नवमपूर्वस्य तृतीयं वस्तु यावत्, उत्कृष्टतस्तु किंचिदूनानि दशपूर्वाणि याबदधिगतसुत्रार्थो भवति । तथा-तवेण १ सुत्तेण २ सत्तेण ३, एगत्तेण ४ बलेण ५ य । तुलणा पंचविहा वुत्ता, पडिमं पडिवजओ ॥१॥
इति गाथोक्तेन तुलनापंचकेन परिकर्मणा प्रागेव भावितात्मा भवति। परिकर्मपरिमाणं चैवं-मासिक्यादिषु
Jain Education Internal
For Private & Personal Use Only
AMw.jainelibrary.org