SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ हतीव परि प्रकारे सर्वविति आत्म खरूप ॥३०॥ बिनलाम स्थादेव । अहं किल जनकरूपेण वैरिणा वंचितः सन् तदा कर्णयोः प्रविष्टां श्रीवीरवाणी शल्यमिव मेने, परं साऽमृतस्वभावत्वेन ममाधुना जीवितप्रदा जाता । अथ हे भ्रातः सर्वमपहृतं धनं तुभ्यं दर्शयित्वाऽहं श्रीवीरपा विरचितेदांते व्रतं ग्रहीतुमिच्छामि। ततोऽभयेन तं राज्ञः समीपमानीय प्रोक्तं-'हे स्वामिन्नयं स्वस्य चौर्य मन्यते'। ततो भूपेन वभ्योऽयमित्यादिष्टे सति अभयः प्राह-हे तात! यद्येष मुच्येत तर्हि अपहृतं धनं सर्वमपि प्रत्यर्प येत्, अन्यथा न तद्ग्रहितुं शक्यते, मयाऽपि चायं बंधूकृत्य गृहीतोऽस्ति, न पुनर्बुद्धया । अथासौ पुनर्वैराग्य॥३०७॥ वासितमानसः सन् दीक्षा ग्रहीतुमिच्छति, तस्मानायं वधमर्हति । ततस्तेन चौरेणापहृतं सर्वमपि धनं दर्शितं, राज्ञा च तद्रव्यं यथास्वं पौरेभ्यो दत्तं । तदनंतरं श्रेणिकपकृतनिष्क्रमणमहोत्सवः परित्यक्तविभवदारपरिवारो रोहिणेयश्चौरो नागरैः स्तूयमानः श्रीवीरप्रभोः पार्श्वे विधिना व्रतं गृहीत्वा स्वयं पूर्वाचरितदुराचारशुद्धये विविधतपांसि तप्त्वा आभवं शुद्धधर्ममाराध्य प्रांतेऽनशनं विधाय स्वर्ग जगाम । इति श्रीभगवद्वाणीमाहात्म्ये रौहिणेयवृत्तांतः। तदेवमुक्तं द्वादशभावनास्वरूपं ।। अथ साधुसंबंधिद्वादशप्रतिमास्वरूपं किंचिनिगद्यते मासाईसत्ता ७, पढमा ८ बिह ९ तइय १० सत्तराइदिणा। अहराइ २१ एगराई १२, भिरूखूपडिमाण बारसगं ॥ ११९ ॥ व्याख्या-प्रथमा मासिकी प्रतिमा, द्वितीया द्वैमासिकी, तृतीया त्रैमासिकी, एवं यावत्सप्तमी सप्तमासिकी Jain Education Internati For Private & Personal use only Www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy