________________
इवीर
मरि
पितकरद्वयस्तिर्यप्रसारितपादयुगो यः पुरुषस्तदाकारोऽस्ति, यद्दा अघोमुखीकृतबृहच्छरावस्योपरि स्थितं यल्लघुविनलाभ
शरावसंपुटं तत्संस्थानो विद्यते । इदमत्र तात्पर्य-सप्तरज्जुविस्तारादधस्तनलोकतलादूर्ध्व स्तोकं स्तोकं संकुचन् विरचिते लोकस्तियग्लोके एकरज्जुविस्तृतो भवति, तत ऊर्ध्व क्रमेण विस्तारं भजन् ब्रह्मलोकस्य तृतीयप्रस्तटे पंचरज्जु
देशविशी आत्म- विस्तृतः स्यात्, ततः पुनः स्तोकं स्तोकं संक्षेपं भजन सर्वोपरितने लोकाग्रप्रदेशप्रतरे रज्जुविस्तृतो भवति, ततो प्रबोधग्रन्थे
भवति यथोक्तसंस्थानो लोक इति । तस्मिश्च धर्मास्तिकायादीनि षद्रव्याणि संति, तन्त्र या स्वभावतो गतिप्रवृ- A ॥३०॥ ॥३०॥
त्तानां जीवपुद्गलानां मत्स्थानां जलमित्र उपष्टंभकारी स धर्मास्तिकायः१। यः पुनः पथिकानां छायेव तेषामेव स्थितावुपष्टंभदायी सोऽधर्मास्तिकायः२। एतौ च द्वावपि प्रदेशतः प्रमाणतश्च लोकाकाशतुल्यो। तथा तेषामेव गतिस्थितिप्रवृत्तानामवकाशदानादवगाहनधर्माऽऽकाशास्तिकायः३। तथा चेतनालक्षणः कर्मणां कर्ता भोक्ता च जीवनधर्मा जीवास्तिकायः४।तथा महीमहीधराभ्रादिसमस्तवस्तूनां परिणामि कारणं पूरणगलनधर्मा पुद्गलास्तिकायः ५ । तथा वर्तनालक्षणोऽभिनवपौगलिकवस्तूनां जीर्णत्वापादकः समयक्षेत्रांतर्वर्ती कालः ६ । एतेषु पुद्गलद्र। व्यवर्जा(नि)णि सर्वाण्यप्यमूर्तद्रव्याणि, पुद्गलस्तु मूर्तः, तथा जीवद्रव्यवर्जा(नि)णि सर्वाण्यप्यचेतनद्रव्याणि ६
इति । ननु असंख्येयप्रदेशात्मके लोकाकाशेऽनंतानंतजीवद्रव्याणि, तेभ्योऽप्यनंतगुणाभ्यधिकानि पुद्गलद्रव्याणि च | IP कथमवतिष्ठते?, संकीर्णता कुतो न स्यात् ? इति चेदुच्यते-जीवद्रव्याणाममूर्तत्वान्न संकीर्णत्वं, पुद्गलानां तु मूर्त
त्वेऽपि प्रदीपप्रभादिदृष्टांतेन तथाविधपरिणामवैचित्र्यादेकस्मिन्नप्याकाशप्रदेशेऽनंतानंतपरमाण्वादिपुदलद्रव्याणा
ACCUS* +CCC
HAKARWACHA
Jain Education Inter
For Private & Personal use only
R
vww.jainelibrary.org