________________
जिनलाभबरि विरचिते
आत्म
प्रबोधग्रन्ये
॥२९९ ॥
Jain Education Inter
अधाष्टमी संवरभावना यथा-इह [ यो ] मिथ्यात्वादीनामाश्रवाणां सम्यक्त्वादिभिर्योगनिरोधः स संवर उच्यते स च सर्वतो देशतश्चेति द्विधा, तत्र सर्वतः संवरोऽयोगि केवलिनामेव स्यात्, देशतः पुनरेकद्विश्याद्याश्रबरोधिनां भवति, स पुनः प्रत्येकमपि द्रव्यभावभेदतो द्विधा, तन्त्रात्मनि आश्रवाज्जायमानस्य कर्मपुङ्गलादानस्य यत्सर्वदेशाभ्यां छेदनं स द्रव्यसंवरः, यस्तु भवहेतुक्रियायास्त्यागः स भावसंवरः, एवंस्वरूपस्याश्रव विरोधिनः संवरस्य चिंतनं मा संवरभावना । उक्तं च- - आसवदारपिहाणं, सम्मत्ताईहि संवरो नेओ । पिहियासवो हि जीवो, सुतरिव तरेह भवजलहिं ॥ १ ॥ ति ८ ।
अथ नवमी निर्जराभावना यथा-इह संसारे प्राग्बद्धानां कर्मणां तपसा निकत्र्त्तनं निर्जरेत्युच्यते । बद्ध्यमानकर्मविषयः संवरः, प्रारबद्ध कर्मविषया च निर्जरेत्यनयोर्भेदः । इयं च द्विधा सकामा अकामा च । तत्र सकामा द्वादशधा बाह्यस्याभ्यंतरस्य च तपसः प्रत्येकं षड्भेदत्वात् । ते भेदास्तु प्राग्यतिधर्माधिकारे व्याख्याता एवेति न पुनर्व्याख्यायते । इयं हि द्वादशविधाऽपि निर्जरा विरतिपरिणतानां भवति, तैरेव कर्मक्षयार्थं स्वाभिलाषेण क्रियमाणत्वात् । अकामा तु विरतिपरिणामरहितानां शेषजंतूनामनभिलाषेणैव शीतोष्णक्षुत्पिपासादेः सहनाजायते, एवंविधाया निर्जरायाश्चिंतनं निर्जरा भावनाः । यदुक्तं कम्माण पुराणाणं, निकंतनं निज्जरा दुबालसहा । विरयाण सा सकामा, तहा अकामा अविरयाणं ॥ १ ॥ ति ९ ।
अथ दशमी लोकस्वभावभावना यथा-अलोकस्य मध्यभागे चतुर्दशरज्जुप्रमाणो लोको विद्यते, स च कटिसंस्था
For Private & Personal Use Only
तृतीय
प्रकाचे देशविरति
स्वरूपं
॥ २९९ ॥
www.jainelibrary.org