________________
जिनलाभसरि
विरचिते
आत्मप्रबोधग्रन्ये ॥२८४ ॥
Jain Education in
पेणैते जीवा बहुविधं दुःखमनुभवति, अहमपि मनाक् प्रमादाचरणेनेदृशीमवस्थां प्राप्तः । तदा कुमारमेवं बिलपंत दृष्ट्वा राज्ञा चिंतितं- 'नूनममीभिर्धूतैर्ममायं कुमारो ग्रथिलः कृतोऽतोऽमी हंतव्याः । ततो राज्ञा रोषात्सेवकानां तद्बंधनादेशे दत्ते सति कुमारो जगाद ' हे तात! इमे हितकराः परकार्यकरा, अतः पूजनयोग्याः संति, नो वधबंधनादियोग्याः' । ततो राजाऽपि कुमारवचनात्साधूनां बहुसत्कारादिप्रतिपत्तिं चकार, तदनंतरं कुमारः साधूनेकांते समादायेत्थं प्रोवाच- 'हे देवानुप्रियाः । एतदनार्यक्षेत्रं, लोका अपि अनार्याः, इह सद्धर्मस्य वार्त्ताऽपि न श्रूयते, ततोऽधुना मम का गतिः ?' । तदा सूरिरुवाच- 'यूयमस्माभिः सार्द्धमागच्छत, यतो भवतां कार्यसिद्धिः स्यात्' । कुमारेणोक्तं बद्धपादत्वादहं चलितुं न शक्नोमि, अतोऽग्रे कथं मे निर्वाह: १' । सूरिणा भणितं - 'एते सर्वेऽपि साधवो युष्मास्यार्यक्षेत्रं प्राप्तेषु सत्सु सम्यग् रीत्या भवद्वैयावृ (स्त्यं) त्तं करिष्यति' । तद्वचनं श्रुत्वा कुमारतत्कालं पित्रोः समीपं गत्वा विज्ञप्तिं चकार - 'भो अंग ! तात ! यदि भवदाज्ञा भवेत्तर्हि एतस्य महाकलाचार्यस्य सार्थेऽहं कलाशिक्षणार्थं व्रजामि' । तदा मातापितरावूचतुः - 'हे पुत्र ! वयं त्वद्वियोगं सोढुं न शक्नुमो तस्स्व. मेतानटान् इहैव संरक्ष्य कलाऽभ्यासं कुरु । कुमार उवाच - 'भवद्भिः सत्यमुक्तं, परमेते विदेशिनोऽस्मद्रव्यायग्रा हकाः कथमत्रावतिष्ठते, तस्माद्विचारांतरं मुक्तत्वा मध्यमाज्ञां प्रयच्छतः, यतोऽहमेतेषां पार्श्वे परिपूर्ण कलाभ्यासं कुर्वे' इति । ततो मातापितरौ तस्यास्याग्रहं मत्वा आज्ञां दत्तवंतौ, आरोहणार्थ च कियत्सेवकजनसंयुक्तामेकां शिविकां वदतुः । तदा हृष्टः सन् कुमारः शिविकामारुह्य चलितस्तत्पृष्ठे च सर्वेऽपि साधवञ्चलिताः, क्रमेण तेनार्यक्षेत्रम·
For Private & Personal Use Only
तृतीय
प्रकाचे देशविरसि स्वरूपं
॥ २८४॥
www.jainelibrary.org