________________
जिनलाभमूरि विरचिते
आत्मप्रबोधग्रन्थे
॥ २८२ ॥
Jain Education Inter
समयनार्यदेशे शुद्धाहारं दुर्लभं मत्वा तथाविधदृढतर संहननान् तपश्चरणशक्तियुक्तान् कतिपयानेव साधून सार्थे गृहीत्वा ततो विहृत्य प्रतिग्रामं विचरन् आर्यक्षेत्रात्परत आहारगवेषणामकुर्वन् क्रमेणानार्यक्षेत्रे यानकविषये यत्र कूडागारनगरं तत्र समागत्य तत्पार्श्ववर्त्तिनि उद्याने प्रासुकभूमिकां प्रतिलेख्य इंद्रायवग्रहं गृहीत्वा स्थितः, तन्नगरवास्तव्यजनास्तददृष्टपूर्वं साधुस्वरूपं दृष्ट्वा -' के इमे १' इति चिंतयंतः साधुसमीपमागत्य पृच्छंति स्म - ' के यूयमिति' । साधुभिरुक्तं- 'वयं नटाः स्मः ' । लोकैर्भणितं - 'यदि नटास्तर्हि नृपसमीपं व्रजत, येन भवतां यथेष्ट धनप्राप्तिर्भवेत्' । साधवोऽवदन् - ' वयं कस्यापि समीपे न व्रजामो, योऽस्माकं समीपे आगच्छति तस्मै स्वनृत्यकलां दर्शयामः ' ।
तदा पुनर्लोकाः प्रोचु:-' यदि यूयं नृपसमीपे न ब्रजिष्यथ तर्हि कस्य गृहे भोजनं करिष्यथ ? ' । तैर्भणितंअस्माभिर्भोजनं न क्रियते' । ततस्ते सर्वेऽपि लोका विस्मिता जाता: केचित् पुनः साधून्प्रतिलेखनां प्रतिक्रमणादिक्रियां च कुर्वतो वीक्ष्य पृच्छन्ति स्म - यूयं किमिदं कुरुथ ?' । साधुभिरुक्तं - ' वयं नृत्यसंबंधिपरिश्रमं कुर्मः ' । ततस्ते लोकाः स्वस्थानं गताः, एषा प्रवृत्तिश्च पुरमध्ये विस्तरिता । राजाऽपि कस्यचिन्मुखात्तां वार्त्ता श्रुत्वा विस्मितः सन् तेषां स्वरूपं द्रष्टुं तत्रागतः । तत्र च तान्साधून दृष्ट्वा एवमुवाच - 'के यूयं ?, कुतः स्थानात्कस्मै प्रयोजनाय च इह समागताः १ ।। सूरिर्जगाद - 'भो देवानुप्रिय ! वयं नटाः, दूरदेशाद्भवतां स्वकलादर्शनार्थमिहागताः स्मः ' । ततो नृपः प्रोचे - 'नृत्यं दर्शयत ' । सूरिणा भणितं - 'यः संगीतशास्त्रे निपुणो भवेत्तस्याग्रे नृत्यं
For Private & Personal Use Only
तृतीय
प्रकाशे
देशविर
स्वरूपं
॥ २८२ ॥
www.jainelibrary.org