SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ जिन लाभसूरि विरचिते मात्म प्रबोधग्रन्थे ॥२७४ ॥ Jain Education Inter औदकिभावमानयति ये ते संज्वलनाः, येषामुदये सति यथाख्यातचारित्रं न भवति, शेषचारित्रभेदास्तु भवंति ४ । एते हि अनंतानुबंध्यादयः कषायाः क्रमेण यावज्जीववर्ष चतुर्मास पक्षस्थितिका नरकगतिर्यग्नरामरगतिप्रयोजका एकादशगुणस्थानस्याग्रभागं समारूढमपि साधुं प्रपात्य पुनर्मिथ्यात्वांधकूपप्रापकाः शुद्धात्मगुणघातकाः सर्वानर्थमूलभूताश्च विद्यते । अतः सुबुद्धिभिरेते सर्वथा न विश्वसितव्याः, किं त्वेतन्निग्रहे एव यतितव्यं । उक्तं चजाजीव वरिसचउमास पक्खगा नरयतिरियनर अमरा । सम्माणुसव्वविरह - अहक्खायचरित्तघायकरा ॥ १ ॥ जइ उवसंतकसाओ, लहड़ अनंतं पुणो वि पडिवायं । न हु तो बीससिअव्वं, थोवे वि कसाय सेसंमि ॥२॥ तत्तमिण सारमिणं, दुबालसंगीह एस भावत्थो । जं भवभमणसहाया, इमे कसाया चजेति ॥ ३ ॥ इति । तदेवमुक्तः कषायजयरूपसंयमः ॥ अथ दंडविरतिस्वरूपं यथा एतत्कषाय चतुष्टय निर्जता साधुर्मनोवचन कायदंडत्रयाद्विरमति, गुप्तित्रयं दधातीत्यर्थः । इहागमोक्त विधिनाऽकुशलकर्मभ्यो निवर्त्तिताः कुशलकर्मणि च प्रवर्त्तिता मनोवचनकायलक्षणा योगास्तिस्रो गुप्तय उच्यते । तत्र मनोगुप्तौ चित्यमानायां मनसो हि मर्कटवदतिचंचलत्वं विद्यते । यदुक्तं - लंघइ तरुणो गिरिणो य, लंघए लंघए जलनिहिं वि । भ्रमइ सुरासुरठाणे, एसो मणमक्कडो कोइ ॥ १ ॥ अत एव चैतन्मुनीनामपि दुर्जयं सर्वकर्मणां बंधे मुख्यं कारणं चास्ति, ततस्तद्दमनं कर्तुमिच्छता मुनिना बहुविधा असद्भावनाः परिहृत्य द्वादशसद्भावनासु विशेषतः आदरः कर्त्तव्यो, येन तादृक चंचलमपि चेतः सुखेन स्ववशमायातीति १ । For Private & Personal Use Only तृतीय प्रकाशे देशविर स्वरूपं ॥२७४ || www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy