SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ CCCHE इतीय प्रकारे देवाविरत BABITARA % है धापातनापादघातादिभिः किमपि विरूपं कर्तुमशक्ताभ्यां किंचिद्रे गत्वैकांते स्थितं । तदानीमगुप्तेंद्रियः । जिनलाभसरि कूर्मश्चापल्यात् स्वपादान् ग्रीवां च यावद्वहिनिचकर्ष तावत्ताभ्यां सद्यः खंडशः कृतो मरणं प्राप्तः । द्वितीयस्त्वविरचिते चपलस्तावहकालं तथैव स्थितो यावत्तौ शृगालो बहु स्थित्वा श्रांती अन्यत्र गतौ । ततः स कूर्मः शनैः शनै-14 आत्म- | दिगवलोकं कृत्वोत्प्लुत्य सद्यो द्रहे प्राप्तः सुखी जातः। इत्थं पंचांगगोपककूर्मवत्पंचेंद्रियगोप्ता भव्यात्मा सदा प्रबोधग्रन्थे सुखी भवेत् , अन्यस्तु द्वितीयकूर्मवददुःखी स्यादतो मुनिभिः पंचेंद्रियजये यत्नो विधेयः। इतींद्रियजये कर्मद्वयोः ॥२७३॥ पनयः॥ तदेवमुक्त इंद्रियनिग्रहरूप: संयमः। अथ कषायजयस्वरूपं यथा-पंचेंद्रियनिग्रहिता साधुः क्रोधादीनां चतुर्णा कषायाणामनुदितानामनुदीरणेन, उदयप्राप्तानां च विफलीकरणेन जयं करोति, निरोधं कुर्यादित्यर्थः । कष्यंते प्राणिनोऽनेति कषः-संसारस्तमयंतेगच्छति एभिरिति कषायास्ते च क्रोधमानमायालोभभेदाच्चत्वारस्तेषां चतुर्णामपि प्रत्येकमनंतानुबंध्यादयश्चत्वारो भेदाः, तत्रानंतं भवं भ्रमणीयत्वेनानुबध्नंतीति अनंतानुबंधिनः क्रोधादयो, येषामुदये जीवैः सम्यक्त्वं न प्राप्यते प्राप्तं वा सम्यक्त्वं वम्यते । तथा नास्ति सर्वथापि विरतिरूपं प्रत्याख्यानं विद्यमानेषु येषु तेऽप्रत्याख्यानाः, येषामुदये प्राप्तसम्यक्त्वानामपि जीवानां देशविरतिरूपः परिणामो न जायते, जातो वाऽवश्यं नश्यते २। तथा प्रत्याख्यानं सर्वविरतिरूपमावृण्वंतीति प्रत्याख्यानावरणाः, येषामुदये जीवैः सर्वविरतिर्न प्राप्यते, प्राप्ताऽपि है| सा विनश्यति, देशविरतेत्तु न निषेधः३। तथा सम्-ईषज्ज्वालयंति परीषहोपसर्गोपनिपाते सति साधूनपि ॥२७॥ A4 A-%A4% Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy