SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि चिरचिते मात्म प्रबोधग्रन्थे ॥२७०॥ Jain Education Intera पचाश्रवाद्विरमणं, पंचेंद्रियनिग्रहः कषायजयः । दंडन्त्रयविरतिश्चे-नि संयमः सप्तदशभेदः ॥ १११ ॥ व्याख्या - आश्रवपंचकं प्राणातिपातादिलक्षणं तस्माद्विरमणं पंचमहाव्रतधारणमित्यर्थः । तेषां व्रतानां स्वरूपं चेदं साधुस्वसान् स्थावरांश्च सर्वानपि जीवान् मनसा वचसा कायेन च स्त्रयं न हंति न चान्यैर्घातयति नापि ध्नंतमन्यमनुजानाति १ । तथा त्रिविधत्रिविध भंगकेनैव रागद्वेषक्रोधमान मायालो भहास्य भगकलहादिभिः प्राणांतेsपि मृषावादं न वक्ति । मृषावादश्चतुर्धा सद्भावनिषेधो १ ऽसद्भावोद्भावन २ मर्थांतराभिधानं ३ गवचनं च ४ । तत्राद्यं यथा नास्त्यात्मेत्यादि, द्वितीयं यथा इपामाकतंडुलमात्र आत्मा ललाटस्थो वेत्यादि, तृतीयं तु गवादेरश्वादिशब्देन कथनं, चतुर्थ च काणस्य काणशब्देनैव चाभिधानमित्यादि २ । तथा साधुरुपयुक्तः सन् त्रिविधत्रिविधभंगकेनैव जीव १ तीर्थंकर २ स्वामि ३ गुरुभि ४ रदत्तं स्वल्पमपि वस्तु न गृह्णाति । तत्र जीवादत्तं सचि. [ग्रहण] मुच्यते, स्वविनाशशंकिना जीवेन स्वाश्रितशरीरस्थान र्पणात्तद्गृह्णतो जीवाऽदत्तं यद्वा बलात्प्रव्राज्य मानः शिष्योsपि जीवादत्तमित्यभिधीयते १ । तथा अचित्तमपि यद्वस्तु तीर्थंकरैर्नानुज्ञातं सुवर्णादि तद्गृह्णतस्तीर्थंकरादत्तं २ । तथा तीर्थंकरैरनुज्ञातमपि यद्वसनाशनादिवस्तु स्वामिना न दत्तं तद्गृह्णतः स्वाम्यदत्तं ३ | तथा स्वामिनानुज्ञातमपि यद्वस्तु केनापि कारणेन गुरुणा निषिद्धं, यथा-' भो सुने ! यत्त्वमिदं मा ग्रहीरिति तल्लो भा दिवशाद्गृह्णतो गुर्वदत्तं । यद्वा गुरोरनालोच्य भक्तादिकं भुजानस्य गुर्वदत्तं भवतीति ४ । ३ । तथा साधुरष्टाद शविधं मैथुनं न सेवते । तत्रौदारिकशरीरविषयं मैथुनं मनसा स्वयं न सेवते, न चान्यान् तत्सेवने प्रेरयति, नापि For Private & Personal Use Only तृतीय प्रकाशे देश चिरति स्वरूपं ॥२७०॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy