________________
जिनलाभ
विरचिते
आत्मअयोधग्रन्थे ॥२५॥
तृतीय
प्रकाशे | देशविरति
स्वरूपं ॥२५७॥
व्याख्या-जडानां-निर्विवेकानां कासश्वासादिरोगेण पुत्रवियोगादिजन्यशोकेन वधबंधादिदुःखेन वा,धिगमुं रोगशोकादिकष्टबहुलमसारं संसारमिति विचारणात्मकं यद्वैराग्यमुल्लसति तद्वैराग्यं विबुधा न मार्गयंति-न स्पृहयंति. सर्वविरत्यनहत्वात् , तदनहत्वं तस्य कस्मादित्याह-"अप्पकालंति" अल्पकालावस्थायित्वात् , अल्पकालाव| स्थायित्वं च रोगादिनिवृत्तौ तस्यापि निवर्तनात् , अत एव नैतत्सुधियां स्पृहणीयमिति । ननु किं तर्हि सर्वविरतियोग्यं वैराग्यमित्यत्राह-"सुहिअस्से"त्यादि,सुखितस्य वा दुःखितस्य वा जंतोर्विवेकेन यद्वैराग्यं भवेत्तदेव वैराग्यं प्रायोऽप्रत्यवायं वा अविनश्वरं, विवेकमूलतया दुःखादेनिवृत्तावपि तस्यानिवर्तनादत एवैतच्चारित्रतरोरुत्पादकत्वाद्वीजमिव बीजं भवति । अत्र चारित्रस्य तरूपमा तु सम्यक्त्वमूलत्वेन प्रथमव्रतस्कंधत्वेन शेषव्रतशाखत्वेन प्रश. मादिप्रशाखत्वेन मकल क्रियाकलापप्रवालत्वेन लब्धिकुसुमत्वेन मोक्षफलत्वेन चावगंतव्या । इह प्रायोग्रहणानं|दिषेणादिषु सत्यपि व्यभिचारे न दोषः,नंदिषेणो हि वसुदेवप्राग्भवजीवः, स चातिकुरूपत्वात्स्त्रीभिरनाद्रियमाणो मनस्यतिदुःखितः मन् अविवेकतोऽप्यबिनश्वरं वैराग्य प्राप्त इति गाथाद्वयार्थः। अथावसरायातं दशविधयतिधर्मस्वरूपं निरूप्यते
खंती १ मद्दव २ अजब ३, मुत्ती ४ तब ५ संजमे य ६ बोधव्वे ।
मचं ७ मोयं ८ आकिं-चणं ९ च बंभं च १० जइधम्मो ॥ १७ ॥ व्याख्या-क्षांति:-क्षमा, सर्वथा क्रोधपरित्याग इत्यर्थः, माईवं-मृदुता, सर्वथा-मानत्यागः २, भाजवं-सरलता,
Jain Education Inter
For Private & Personal use only
Siwww.jainelibrary.org