SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ जिनलाभमूरि विरचिते आत्म प्रबोधग्रन्थे ॥२५३॥ Jain Education Inter क्रियया च । तत्र पुनर्भाषाजडस्त्रिधा - जलमूको मन्मनमूक एलमूकश्च । तत्र यो जलमग्न इव बुडबुडायमानो जल्पति स जलमूकः यस्य तु जल्पतः खच्यमानमिव वचः स्खलति स मन्मनमूकः, यश्चैलक इव मूकतयाऽव्यक्तं शब्दमात्रमेव करोति स एलमूकः । तथा योऽतिस्थूलतया पथि १ भिक्षाटने २ वंदनादिषु ३ चाशक्तो भवति स शरीरजडः, तथा क्रियां प्रतिक्रमणप्रत्युपेक्षणादिकां पुनः पुनरुपदिश्यमानामपि जडतया यो ग्रहीतुं न शक्नोति स क्रियाजडः । तत्र भाषाजडो ज्ञानग्रहणेऽसमर्थत्वात्, शरीरजडस्तु मार्गगमनादिष्वशक्तत्वात् क्रियाजडच क्रियाया अग्राहकत्वान्न दीक्षा है: ५ । तथा कुष्ठ भगंदरातिसारादिरोगैर्ग्रस्तो व्याधितः सोऽप्यनर्दो, यतस्तचिकित्सने षट्काय विराधना स्वाध्यायादिहानिश्च स्यात् ६ । तथा क्षात्रखननमार्गपाननादिचौर्यक्रियानिरतः स्तेनः, सोsपि गच्छस्य वधबंधनादिवह्ननर्थहेतुतया दीक्षाऽनई एव ७। तथा श्रीगृहां-तःपुर- नृपशरीरादिद्रोहकारको राजापकारी, सोऽप्युक्तहेतोरेवायोग्यः ८ । तथा यक्षादिभिर्महामोहोदयेन वा विकलत्वं नीत उन्मत्तः, सोऽपि बहुदो षहेतुत्वादन एव ९ । तथा न विद्यते दर्शनं-नेत्रं सम्यत्तवं वा यस्य सोऽदर्शनोंऽघः स्त्यानर्द्धिनिद्रोदयवांश्च, अयं हिदीक्षिनः सन् यान् [गच्छन् ] दृग्विकलतया प्रतिपदं षट्कायविरोधक आत्मोपघातकोऽपि च स्यात् । स्त्यानर्द्धिमांस्तु प्रद्विष्टः सन् गृहिणां साधूनां च मारणादि कुर्यात्, अतोऽनर्हत्वं १० तथा गृहदास्याः संजातो, द्रव्यादिना वा क्रीतः, ऋणाद्यर्थं वा धृतो दास उच्यते, सोऽप्यनर्हो, यतस्तस्य दीक्षादाने तत्स्वामिकृताः प्रव्रज्या त्याजनादयो दोषाः संभवति ११ । तथा दुष्टों द्विधा- कषायदुष्टो विषयदुष्टश्च तत्र गुरुगृहीतसर्षपभर्जिकाभिनिविष्टसाध्वादि For Private & Personal Use Only तृतीय प्रकाशे देशविरति स्वरूपं ॥२५३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy