SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते मास्मप्रबोधग्रन्थे ।। २५२ ॥ Jain Education Interne स्वामिन्! भवदंतेवासी अतिमुक्तको नाम कुमारश्रमणः कतिभिर्भवग्रहणैः सेत्स्यति ? ।' भगवता भणितं - 'भो आर्याः ! मवंतेवासी अतिमुक्तकसाधुरनेनैव भवग्रहणेन सेत्स्यति, तस्माद्भा आर्याः ! यूयमतिमुक्तककुमारश्रमणं मा हीलयत, मा निंदत, मा गर्हध्वं, माऽवमन्यध्वं किं तु भो देवानुप्रियाः । यूयमेनमखेदेन संगृह्णीत अखेदेनोपगृह्णीत, तथा भक्तपानविनयैरस्य वैयावृत्त्यं कुरुत, यदुतायं मुनिर्भवांतकर एवं चरमशरीर एवेति । ' ततस्ते स्थविरा भगवता वीरस्वामिना एवमुक्ताः संतः प्रभुं वंदित्वा नत्वा भगवद्वाक्यं विनयेनांगीकृत्यातिमुक्तककुमारश्रमणमखेदेन संगृह्णति स्म यावद्वैयावृत्त्यं कुर्बति स्म । ततोऽतिमुक्तकमुनिरपि तत्पापस्थानमालोच्य विविधतपचर्यादिना संयमं सम्यगाराध्य प्रांते अंतकृत्केवलीभूय सिद्धिं जगाम । अयं संबंधोऽतकृद्दशाभगवत्यगाद्यनुसारेणोक्तः । इति बालदीक्षायामतिमुक्तकमुनिवृत्तांतः १ ॥ तथा षष्टेः सप्ततेर्वा वर्षेभ्यः परतो वृद्धोऽभिधीयते, तस्यापि समाधानादि कर्त्तुमशक्यमतो दीक्षानर्हत्वं । यदुक्तं - उच्चासणं समीहह, विषयं न करेंइ गब्बमुब्वहह । वुट्टो न दिक्खियन्धो, जइ जाओ वासुदेवेण ॥ १ ॥ इत्यादि । इदं च वर्षशतायुष्कं प्रति द्रष्टव्यं, अन्यथा तु यस्मिन् काले यदुत्कृष्टमायुस्तद्दशधा विभज्याष्टमनवमदशमभागेषु वर्त्तमानस्य वृद्धस्वमवसेयं २ । तथा स्त्रीपुंसो भयाभिलाषी पुरुषाकृतिः पुरुषो नपुंसकः ३ । तथा यः स्त्रीभिर्निमंत्रितोऽसंवृतां वा स्त्रियं दृष्ट्वा संजातकामाभिलाषः सन् वेदोदयं सोढुं न शक्नोति स पुरुषः क्लीत्रः ४ । एतौ च द्वावपि उत्कटवेदतयाऽकस्मादुड्डाहादिकारित्वाद्दीक्षाऽनहवेय । तथा जडस्त्रिविधो भाषया शरीरेण For Private & Personal Use Only तृतीय प्रका देशविर खरूपं ।। २५२॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy