SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२५१ ॥ Jain Education Interne मिष्टः कांत एक: पुत्रोऽस्ति परं यथा कमलं पंके जायते जले च संबर्द्धते, न पुनः पंकजलाभ्यामवलिप्तं भवति, तथाऽयमपि शब्दरूप लक्षणेषु कामेषु जातो गंधरसस्पर्श लक्षणेषु भोगेषु च वृद्धिमुपगता न पुनः कामभोगेषु मित्र| ज्ञातीयस्वजन संबंधिषु चानुलिप्तो भवति । किं त्वसौ संसारभयोद्विग्नः सन् भवतां पावें दीक्षां ग्रहीतुमिच्छात, तस्माद्वयं भवद्भथ एतां शिष्यभिक्षां दद्मो भवतोऽप्येतां प्रतीच्छंतु ।' स्वामिना भणितं यथासुखं देवानुप्रिय ! मा प्रतिबंध कुरु [त] ।' ततोऽतिमुक्तकक्कुमारो भगवद्वचनं श्रुत्वा हृष्टः सन् भगवंतं त्रिःप्रदक्षिणीकृत्य नरवा चोत्तरपूर्वस्यां दिशि अपक्रम्य स्वयमेवाभरणमाल्यालंकारान् विमुंचति स्म । तदा माता हंसलक्षणेन पटशाटकेनाभरणादिकं गृहीत्वा नेत्राभ्यामश्रूणि विमुंचती अतिमुक्तककुमारमेवमवादीत् - 'हे पुत्र ! प्राप्तेषु संधमयोगेषु त्वया प्रयत्नः कार्योऽप्राप्तानां संगमयोगानां प्राप्तये घटना कार्या, पुनः प्रव्रज्यापालन स्वपुरुषत्वाभिमानः सफलः कार्यः, प्रमादस्तु न कार्य' इति । ततो मातापितरौ भगवंत नत्वा सपरिकरौ स्वस्थान गतो । तदनंतरमतिमुक्तकः स्वामिसमीपमागत्य वंदनादि कृत्वा प्रव्रजितः । स्वामिनाऽपि पंचमहाव्रतग्राहणापूर्वक क्रियाकलापादिशिक्षणाय गीतार्थस्थविरेभ्यः समर्पितः । ततः प्रकृतिभद्रको विनीतोऽतिमुक्तको नाम कुमारश्रमण एकदा महावृष्टी निपतंत्यां कक्षायां प्रतिग्रहकं रजोहरणं च समादाय बहिः संप्रस्थितः, तत्र च जलवाहं वहमानं दृष्ट्वा बालावस्थावशामृत्तिकया पालिं बद्ध्वा नौवाहको नावमिवासौ प्रतिग्रहकं 'नौका ममेयमिति संकल्प्य तत्र प्रवाहयन् रमते स्म । तदा स्थविरास्तदीयात्यंतानुचितां तां चेष्टां दृष्ट्वा तमुपहसंत इव भगवत्समीपमागत्य भगवंतमेवं पप्रच्छुः For Private & Personal Use Only तृतीय प्रकाचे देशविरवि खरूपं ।। २५१ ॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy