________________
जिनलाभ
तृतीय
मुरि
| देववित
विरचिते
बारमबोप्रधान्थे ॥२५॥
बद्धानां परलोकपराङ्मुखानां विषयतृष्णावतां विद्यते, न खलु धीरस्य संसारभयोद्विग्रस्येति । तस्मादहं भवंदनु-. ज्ञयाऽधुनष प्रबजितुमिच्छामि।' ततस्तो पुनरूचतुः-'हे बाल ! एतावत हठं मा कार्षीः,त्वं किं जानासि? ।' तदा. तिमुक्तकोऽवादीत्-'हे अंब! तात! यदहं जानामि तदेव न जानामि,यच न जानामि तदेव जानामि । ततस्तावूचतु:'हे पुत्र ! कथमेतत् ।' सोऽब्रवीत्-'हे पितरौ ! जानाम्यहं यदुत-जातेनावश्यं मर्तव्य,परं न जानामि-कदा वा कस्मिन् वा कथं वा कियचिराद्वा?, तथा न जानामि-कैः कर्मभिर्नरकादिषु जीवा उत्पद्यते १, एतत्पुनर्जानामियत्स्वयं कृतः कर्मभिरिति । ततो मातापितरौ तस्य संयमे स्थिरचित्त विज्ञाय महताऽऽडंबरेण निष्क्रमणमहोत्सवं चक्रतुः । तदातिमुक्तककुमारः लानविलेपनवस्त्राभरणादिविभूषितशरीरो मातापितृप्रभृतिबहुपरिवारपरिवृतो | महाशिविकामारुह्य विविधधादित्रादिध्वनौ जायमाने यदा पुरमध्ये निर्जगाम तदा बहवो द्रव्यार्थिनो भाविजना मनोज्ञवाणीभिरित्थमाशिषं ददुः-'हे राजकुमार ! त्वं धर्मेण तपसा च कर्मशत्रून् जय जय, पुन जगदानंदकरते भद्रं भूयात् , पुनस्त्वमुत्तमैर्ज्ञानदर्शनचारित्रैरजितानींद्रियाणि जय, जितं च साधुधर्म सम्यक् पालय, | पुनस्त्वं निर्विनेन सिद्धिस्थान प्राप्नुही'ति।
ततोऽतिमुक्तककुमार इत्थं याचकजनैः स्तूयमानः पौरनरनारीभिश्च सादरं विलोक्यमानोऽर्थिजनेभ्यश्चेप्सितं दानं ददानः पुरावहिनिर्गत्य पत्र चीरस्वामी समवसृतस्तत्रागत्य शिबिकात उत्तीर्णः। ततो मातापितरौ तं कुमारमग्रे कृत्वा श्रीवीरस्वामिसमीपं समागत्य वंदनादिपूर्वकमेवमूचतु:-'हे स्वामिन् ! अयमतिमुक्तककुमारोऽस्माक
ACCUSEGC
॥२५०||
Jain Education Inter
For Private & Personal Use Only
T
ww.jainelibrary.org