SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि विरचिते वात्मप्रबोधग्रन्ये ॥२४८ ।। Jain Education Interi कमेकः पुत्र इष्टः कांतः प्रिय आभरण करंडक समानोऽमूल्यरत्न भूतो हृदयानंदजनक उदुंबरपुष्पमिव दुर्लभोऽसि, अत एव क्षणमपि स्वद्वियोगं सोढुं न शक्नुमो वयं तस्मात् हे जात ! यावद्वयं जीवामस्तावत्वमवतिष्ठस्व, पश्चात्सुखेन प्रव्रज्याग्रहणं कुर्याः । ततः कुमारो जगाद ' हे अंब ! भवदुक्तं सत्यं, परमेष मनुष्य भवोऽनेकजन्मजरामरणस्वरूपशारीरमानसिकप्रकामदुःखवेदनोपद्रवाभिभूतोऽभुवोऽशाश्वतः संध्याभ्ररागसदृशो जलबुद्बुदसमानो विद्युल्लताचंचलः शटनपतनविध्वंसनधर्मः पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्यः, अथ को जानाति अस्माकं मध्ये कः पूर्व परलोकं यास्यति ? को वा पञ्चाद्यास्यति । तस्माद्भवदाज्ञयाऽधुनैवाहं प्रब्रजितुमिच्छामि'। ततः पुन|र्मातापितरौ तमेवमवादिष्टां - 'हे पुत्र ! इदं ते शरीरं विशिष्टरूपं लक्षणव्यंजन गुणोपपेतं विविधव्याधिविवर्जितं ससौभाग्यं निरुपहतोदात्तकांतपंचेंद्रियोपशोभितमनेकोत्तमगुणयुक्तं विद्यते । तस्मात्पूर्वं स्वशरीरस्य रूपसौभाग्यादिगुणाननुभूय परिणतवयस्को भूत्वा पश्चात्प्रव्रज्यां गृह्णीयाः । ततः कुमारः पुनरेवमुवाच - ' हे अंब ! तात ! यद्भवद्भयां शरीरस्वरूपमुक्तं तन्मानुष्यकं शरीरं खलु दुःखायतनं विविधव्याधिशत निकेतनमस्थिकाष्ठोच्छ्रितं शिरास्नायुजालसंवेष्टितं मृत्तिकाभांडमिव दुर्बलं अशुचिपुद्गलसंक्लिष्टं शटन पतनविध्वंसनधर्म पूर्व वा पश्चाद्वाऽवश्यं त्याज्यं भविष्यति, अतः कोऽत्र शरीरे धीमान् रज्यति ? ' । ततो मातापितरौ पुनरूचतुः - ' हे पुत्र ! इदं ते पितामहप्रपितामहादिभ्य आगतं विपुलधनकनकरत्नमणिमौक्तिकशंखप्रवालप्रभृति स्वायत्तं प्रधानं द्रव्यं विद्यते, यत्सप्तमं पुरुषं यावदत्यर्थं दीनादिभ्यो दीयमानमपि स्वयं भुज्यमानमपि च नक्षयं याति । तदेवंविधमेतद्द्रव्यं ' For Private & Personal Use Only तृतीय प्रकाश देशविरति खरूपं ॥२४८॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy