SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ जिनलाभपरि विरचिते वात्मप्रबोधग्रन्ये ॥२४८ ।। Jain Education Interi कमेकः पुत्र इष्टः कांतः प्रिय आभरण करंडक समानोऽमूल्यरत्न भूतो हृदयानंदजनक उदुंबरपुष्पमिव दुर्लभोऽसि, अत एव क्षणमपि स्वद्वियोगं सोढुं न शक्नुमो वयं तस्मात् हे जात ! यावद्वयं जीवामस्तावत्वमवतिष्ठस्व, पश्चात्सुखेन प्रव्रज्याग्रहणं कुर्याः । ततः कुमारो जगाद ' हे अंब ! भवदुक्तं सत्यं, परमेष मनुष्य भवोऽनेकजन्मजरामरणस्वरूपशारीरमानसिकप्रकामदुःखवेदनोपद्रवाभिभूतोऽभुवोऽशाश्वतः संध्याभ्ररागसदृशो जलबुद्बुदसमानो विद्युल्लताचंचलः शटनपतनविध्वंसनधर्मः पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्यः, अथ को जानाति अस्माकं मध्ये कः पूर्व परलोकं यास्यति ? को वा पञ्चाद्यास्यति । तस्माद्भवदाज्ञयाऽधुनैवाहं प्रब्रजितुमिच्छामि'। ततः पुन|र्मातापितरौ तमेवमवादिष्टां - 'हे पुत्र ! इदं ते शरीरं विशिष्टरूपं लक्षणव्यंजन गुणोपपेतं विविधव्याधिविवर्जितं ससौभाग्यं निरुपहतोदात्तकांतपंचेंद्रियोपशोभितमनेकोत्तमगुणयुक्तं विद्यते । तस्मात्पूर्वं स्वशरीरस्य रूपसौभाग्यादिगुणाननुभूय परिणतवयस्को भूत्वा पश्चात्प्रव्रज्यां गृह्णीयाः । ततः कुमारः पुनरेवमुवाच - ' हे अंब ! तात ! यद्भवद्भयां शरीरस्वरूपमुक्तं तन्मानुष्यकं शरीरं खलु दुःखायतनं विविधव्याधिशत निकेतनमस्थिकाष्ठोच्छ्रितं शिरास्नायुजालसंवेष्टितं मृत्तिकाभांडमिव दुर्बलं अशुचिपुद्गलसंक्लिष्टं शटन पतनविध्वंसनधर्म पूर्व वा पश्चाद्वाऽवश्यं त्याज्यं भविष्यति, अतः कोऽत्र शरीरे धीमान् रज्यति ? ' । ततो मातापितरौ पुनरूचतुः - ' हे पुत्र ! इदं ते पितामहप्रपितामहादिभ्य आगतं विपुलधनकनकरत्नमणिमौक्तिकशंखप्रवालप्रभृति स्वायत्तं प्रधानं द्रव्यं विद्यते, यत्सप्तमं पुरुषं यावदत्यर्थं दीनादिभ्यो दीयमानमपि स्वयं भुज्यमानमपि च नक्षयं याति । तदेवंविधमेतद्द्रव्यं ' For Private & Personal Use Only तृतीय प्रकाश देशविरति खरूपं ॥२४८॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy