SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ SARDAGA-KAR |वान् स्वामिनमापृच्छय भिक्षार्थ पुरमध्ये समेतस्तदा बालैः सह रममाणोऽतिमुक्तककुमारो गौतमं दृष्ट्वैवमवाजिनलाभ तृतीय सरि | दीत्-'के यूयं ? किं चाटथ ? ।' गौतमेनोक्तं- 'श्रमणा वयं, भिक्षार्थ च पर्यटामः ।। ' तर्हि पूज्या आगच्छत, प्रकाशे विरचिते भवद्भयो भिक्षां दापयामीति भणित्वा स कुमारोंगुल्यां गौतममवलंब्य स्वगृहमानैषीत् । तदा श्रीदेवी हृष्टा देवविरति आत्म- दिसती भक्त्या गौतम नत्वा प्रतिलाभयामास । ततोऽतिमुक्तकः पुनरेवनवोचत्-'यूयं क वसथ ?' गौतमःप्रोचे खरूप प्रदोषान्थे 'हे भद्र! यत्रोद्यानेऽस्माकं धर्माचार्याः श्रीवर्द्धमानस्वामिनो वसंति तत्र वयं परिवसामः। तदा म प्रोचे-स्वामिन् ! २४७॥ ॥२४७॥ आगच्छाम्यहं भवत्सार्थे श्रीवीरस्वामिनं वंदितुं ।' गौतमोऽवादीत्- यथासुखं देवानुप्रिय!' । ततो गौतमेन सहागत्यातिमुक्तक]कुमारो भगवंतं वंदने स्म। भगवता धर्मोपदेशोदत्तः,तं श्रुत्वा प्रतिबुद्धोऽतिमुक्तको दीक्षांग्रहीतुमिच्छन् पित्रोरनुज्ञाग्रहणार्थ गृहमागत्य पितरावेवमब्रवीत्-'हे अंब! हे तात ! मयाऽद्य श्रीवीरस्वामिनः पार्थे । धर्मः श्रुतः, स धर्मो मे रुचितः । तदा ताबूचतुः-'हे पुत्र ! धन्योऽसि त्वं कृतपुण्योऽसि कृतार्थोऽसि त्वं यत्त्वया वीरस्वाम्यंतिके धर्मः श्रुतः, स पुनस्ते रुचित' इति । ततः स कुमारः पुनरेवमुवाच-'हे अंब! हे तात! अहं तद्धमैश्रवणादिना संसारभयोद्विग्नो जन्ममरणेभ्यो भीतश्चास्मि, तस्माद्भवदनुज्ञया श्रीवीरप्रभुसमीपे प्रव्रज्यांग्रही मिच्छामि।ततो माता तदनिष्टमेकांतमप्रियमश्रुतपूर्व वचः श्रुत्वा सद्यः शोकभरं प्राप्ता दीनवदना सती मूर्जा प्राप्यांगणतले धसत्ति सर्वांगैर्निपतिता। तदा चेटीभिस्त्वरितं कंचनकलशमादाय तन्मुखविनिर्गतशीतलविमल[जल धाराभिः परिषिक्ता कृतशीतवातोपचारादिभिश्चतनां प्राप्य विलपंती पुत्रं प्रत्येवमवादीत्-'हे जात ! स्वमस्मा. HAMARPOSESE क Jain Education Intern For Private & Personal Use Only Kuwww.jainelibrary.org र
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy