________________
56
जिनलाम
॥ अथ तृतीयः प्रकाशः॥
द्वतीय
सरि
प्रवाशे
देशविरति
विरचिते
आत्मप्रबोधग्रन्थे ॥२४५||
॥२४५॥
AGA
अथ क्रमायातस्तृतीयः सर्वविरतिप्रकाश आरम्यते, तत्र तावत्तत्प्राप्तिप्रकारसूचिकेयमार्याप्रत्याख्यानावरण-कषायचतुष्कक्षयोपशमभवनात् । लभते मानव एतां, देशविरतिमानविरतो वा ॥८८॥ व्याख्या--देशविरतिमान्-पंचमगुणस्थानवती वाऽधवा अविरतः-प्रथमगुणस्थानवर्ती चतुर्थगुणस्थानवर्ती वा मानव: प्रत्याख्यानावरणलक्षणतृतीयकषायचतुष्टयक्षयोपशम जाते मति एतां सर्वविरतिं लभते । त्रिविधत्रिविधभंगकेन सर्वसावद्ययोगेभ्यो निवृत्तिः सर्वविरतिरित्युच्यते । देवतिर्यग्नैरयिकास्तु तथाभवस्वाभाव्यान्नैतां लभंते इति मानवस्यैव ग्रहणं । किंचेयं हि सर्वविरतिर्देशविरतिप्राप्तिसमयभाविन्याः कर्मस्थितेमध्यात्संख्यातेषु सागरोपमेषु क्षपितेषु सत्स्वेव प्राप्यते, इत्युपदर्शितं प्राग् विस्तरेण । तथा स्थितिमानं तु अस्या अपि देशविरतिवजघन्यतोऽतर्मुहर्तमुत्कर्षतो देशोना पूर्वकोटिरित्यवगंतव्यं । एवंम्पा सर्वविरतिर्थेषां विद्यते ते सर्वविरताः साधव उच्यते । ते च द्विविधा:-उद्मस्थाः केवलिनश्च । तत्र उद्मस्थाः षष्ठगुणस्थानादारभ्य द्वादशगुणस्थानतिनो मुनयः, केवलिनस्तु त्रयोदशचतुर्दशगुणस्थानद्वयवर्तिनो जीवाः । तत्रास्मिन् प्रकाशे तु छद्मस्थानामेवाधिकारः, केवलिनस्तु परमात्मस्वरूपाः संति, अतस्तेषां स्वरूपं चतुर्थप्रकाशे वक्ष्यते इति ।
-% C5%ANREGROCOD
R
OCHOCake
Jain Education Intern
For Private & Personal use only
ww.jainelibrary.org